पृष्ठम्:चोरचत्वारिंशी कथा.pdf/57

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Կ2 विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युक्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ।। ४० ॥ तां चावादीत् । वत्से मारजने, नूनं त्वया वहूपकृतं मम । नातिचिरातप्राक् प्रेष्यभावान्मोचयता मया भणितैव त्वम्- यथान्यदपि पारितोषिकं मत्तः प्राप्स्यसि-इति । अयं च संप्राप्तः समयस्तद्वितरीतुम् । अद्य त्वां मत्स्नुषापदमारोपयितुमिच्छामि । १७. अथासौ पुत्रस्य संमूर्खीभूय बभाण- अद्ययावत्त्वं मदाज्ञापरोऽभूः । येनाधुनापि त्वं मद्वचनमाश्रुत्य जन्मदासीमपि मारजनिमेतां भार्यात्वेनाभिनन्देः । इदं तु प्रमाणनिरपेक्षमेव यत्कूटवणिजा हर्षणेन, मद्वधमेव संकल्पयता त्र्वं वयस्यभावं लम्भितः । एतदप्यभूमिः संशयस्य-यन्मां प्राणैर्वैियोज्य स त्वामप्यद्य निशायां प्राणैर्व्ययोजयिष्यत् । एवमेतत्प्राप्नोति यन्मारजन्या न केवलं मदीर्य, किं तु त्वदीयमपि जीवितं परिरक्षितम्। अतः, चतुरोपकारिणीमिमां भुजिष्यां त्वद्वधूत्वं नारोपयामि चेत्, युक्ताननुष्ठानात्सर्वथा वाच्यमात्मानं विदध्याम् । उक्तं हि कनकभूषणसंग्रहणोचितो यदि मणिखपुणि प्रणिधीयते। न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता॥४१॥ १८. पितृवचसोऽस्मात्पूर्वमेव, अलिपर्वपुत्रो मारजन्याश्चातुर्येण हृतप्रीतमना आसीत्। तथा चोत भारविणा कमिवेशते वशयितुं न गुणाः ? किं तु श्रीमतः श्रेष्ठिनः संभूतत्वात्, जन्मतोऽनुगतदासीभावां तां कामयितुं नोदसहत । अधुना तु दासीभृवे.निवृत्ते, अन्यैव वनितासौ संपन्ना ॥ कि च