पृष्ठम्:चोरचत्वारिंशी कथा.pdf/58

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ԿԿ यत्रैव मनसः कामस्तत्रैव पितृचोदना । इति मत्वायं तत्क्षणं सानन्दं तदाज्ञाविधानोद्यतमात्मानं निवेदयामास' १९. अथ तौ पितापुत्रैौ, निखातपूर्वाणां चोरशवानां सविध एव, अन्तर्गर्तं तदग्रणीशरीरं शाययामासतुः । किंच तमर्थं तथा निभृतं निर्वर्तयामासतुः, यथा नैकोऽपि प्रातिवेशिको लेशतोऽपि तदभिज्ञो बभूव । अथान्यस्मिन्दिवसे, तथानन्तरेषु च केषुचित्कुजहर्पर्ण पण्यशालामपावरितुमनागतं प्रेक्ष्य, जनाः * कुत इदम् ? ? इति व्यस्मयन्त । किन्तु गच्छता कालेन तद्भतं सर्वमपि तैर्वैिस्मृतम् ॥ २०. तत: कतिपयदिवसापगमे, मारजन्यालिपर्वणयोवैिवाही निर्वतः । तनिमित चालिपर्वणा सुसंपन्नं भोजन ज्ञातिभ्यो दतम्। तथा चीतम् संभोजर्न संकथर्न ক্ষুদীসুস্থ TTT: एतानि ज्ञातिकायोणि न विरोधः कदाचन ॥ ४२ ॥ तदा सवैरपि भणितम्- अहो उचितमाचरितमलिपर्वणा, यजन्मदास्यपि मेधाविनी शीलवती मारजनिदस्यादुदृश्य स्नुपात्वमारोपिता ! यतः संवन्धस्यास्य परमार्थहेतुस्तेषामज्ञात एवासीत् । २१. अथ वर्ष यावदलिपर्वा चोरगुहां नैवागमत् । दीर्धेऽस्मिन्नन्तरे कामपि चोरबाधामनुपस्थितां प्रेक्ष्य भूयोऽप्यसौ वाजिना तद्रुहां प्रापत् । गुहाया निकटेऽश्वादवतीर्य तत्र नराणां तुरगाणां वा पदमुद्रा अनालोक्य, स वीतभयमात्मान मेने । अन्त: प्रविष्टश्व स उनिनाय- यदा कौशेयभाराश्चोराग्रण्या विक्रयार्थं पुरं नीताः. तदाप्रभति न कोऽपि नरो ग्रहान्तः प्रविष्ट-इति ।