पृष्ठम्:चोरचत्वारिंशी कथा.pdf/59

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ጻ% २२. अथासौ पुनरप्यात्मगतं जगाद- सर्वेऽपि चोरा ध्रुवं लयं गताः। गुहाप्रवेशरहस्यं च मद्वर्ज न कोऽप्यन्यो जानाति । येन समग्रस्यैतावतः कोशस्य, अहमेवासाधारणः स्वामी । एनमहं यथाकामं भोतुमीशे । ततः, तेनात्मना सार्धमानीतो महान्स्यूतः स्वर्णमुद्राभिर्निरन्तरं पूरितः । प्रच्छनं च पुरं प्रत्यानीतः । २३. केनचित्कालेनालिपर्वणा स्वतनुजस्तामठवीं नीत्वा गुहारहस्यं ज्ञापितः । स तनयोऽपि विपुलां तां संपदं चातुर्येणोपयुञ्जानो भुञ्जानश्च गच्छता कालेन ननराध्यक्षपदं प्राप्तः । सोऽपि पितरमनुकुर्वस्तद्रहस्यं स्वीयं पुत्रमुक्तवान्, सोऽपि स्वीयम् । अनया परंपरया तदुहारहस्यं बहुलानि वर्षाणि यावदलिपर्ववंशजा जब्रुः । तदुहागतानि सर्वाणि महाघणि वस्तून शनैःशनैरात्मसाच्चकुः । एवं क्रमेण गुहान्तर्वर्ती स धनसंचयः प्रचुरोप्यस्तमितो बभूव । तेनैव समं तद्रहस्यगोपनप्रयोजनमपि । यतः खल्वहं कथामिमामामूलादलिपर्ववंशजाद्वेदितुं युष्मभ्यं च निवेदयितुं प्राभूवम् । २४. अथ, अतिप्रभूतोऽपि चोरसंचितो धनराशिः कालेन क्षीणतां गतः-इत्यालोच्य स्मरामि भगवतो व्यासस्य वचनम् सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ४३ ॥ इति समातेयं चोरचत्वारिंशी नाम कथा ।