पृष्ठम्:चोरचत्वारिंशी कथा.pdf/9

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

钱 ११. अथासौ सत्वरमनन्तरकरणीयं निश्चिकाय । सपदि च गुहान्तः प्रविवेश । तत्क्षणं च द्वारं स्वयं संवृतम् । न पुनः संवृत्तं तत्तस्य भयाय । स हि तदुद्धाटनरहस्यमजानात् । ततोऽसौ स्वर्णपूर्णास्तावतीरजिनगोणीराददे, यावतीर्वोडुं तस्य गर्दभाः प्रभवेयुः । ताश्व गोणीर्यातायातैद्वर्देशमानयत् । १२. अथ विवृतिमन्त्रेण द्वारं विवृत्य ता गोणीर्निष्कास्य रासभपृष्ठान्यारोप्य काष्ठैश्छादयामास । येन न कोऽपि ताः पश्येत् । ततोऽसौ द्वाराद्बहिः स्थित्वा संवृतिमन्त्रं व्याजहार । द्वारं च सपदि संवृतम्। तद्धि, बहिःस्थितेन तेन यावन्मन्त्रो नोच्चारितः, तावद्विवृतमेवातिष्ठत् । ततोऽयं द्रुततरं क्रामन्नगरं निवृत्तः । द्विर्त्तय भागः स्वर्णपरिमाणम् भूर्तिं मनोऽतिगां प्राप्य दैवतः कृपणो जनः । नान्यतोऽलं गोपयितुं तां विस्मयवशं गतः ॥ ११ ॥ १. अथ गृह प्राप्य, अलिपर्वा बालेयानङ्गण प्रवेशयामास । बहिद्वीरें निपुण पिदधौ । गोणिकानामुपरि रचितानि काष्ठान्यपसारयामास च । ताश्च गृहे नीत्वा मञ्चकगतायाः पत्न्याः पुरः पङ्किक्रमेण स्थापयामास । २. किमेतासु गोणीषु भवेत् ?—इति हौतुकाकृष्टा सा ता गोणीर्मन्र्द पस्पर्श। ताव द्रव्यगर्भा विज्ञाय, मुहूर्त विस्मयपरवशा न किमपि वकुं