३ अध्यायः] छन्दःशास्त्रम् । २१ न्यङ्कसारिणी द्वितीयः । ३ । २८ ॥ ‘पूर्ववेद्’ इत्यनुवर्तते । पूर्वश्वजागतः पादो द्वितीयो भवति, शेषाश्च गायत्रः, तदा ‘न्यङ्कसारिणी' नाम्री बृहती भवति । यथ ‘मत्स्यपयि ते महः (१) पात्रंस्येव हरिवो मत्सरो मर्दः (२) । वृषां ते वृष्ण इन्दु (३) र्वाजी संहस्रसार्तमः (४) ॥ (ऋग्वेदे-अ० २ अ० ४ व० १८ मं० १ ) स्कन्धेोग्रीवी क्रौष्टुकेः । ३ । २९ ॥ इयमेव ‘न्यङ्कसारिणी' क्रौष्टकेराचार्यस्य मतेन ‘स्कन्धोग्रीवी’ नाम छन्दो भवति । आचायेग्रहणं पूजार्थम् ॥ उरोबृहती यास्कस्य । ३ । ३० ।। इयमेव न्यङ्कसारिणी यास्कस्याचार्यस्य मतेन ‘उरोबृहती’ नाम्री भवति ॥ उपरिष्टाद्वहत्यन्ते । ३ । ३१ ।। यदा जागतः पादोऽन्ते भवति, तदा ‘उपरिष्टाद्वहती' नाम भवति । यथ ‘न तमंहो न दुरितं (१) देवासो अष्ट मैत्र्यम् (२) । सजोषसो यमर्यमा (३) मित्रो नयन्ति वख्णो अतिद्विर्षः (४) ।’ (ऋग्वेदे-अ० ८ अ० ७ व० १३ मं० १ ) पुरस्तादृहती पुरः ॥ ३ ॥ ३२ ॥ सँ एव जागतः पादः पूर्ववेद् भवति, शेषाश्च गायत्राः, तदा पुरस्ताद्वहती' नाम भवति । यथा 'महो यस्पतिः शर्वसो अँसाम्या (१) महो नृम्णस्यं तूतुजिः (२) । भर्त वज्रस्य धृष्णोः (३) पिता पुत्रमिव प्रियम् (४) ॥ ' (ऋग्वेदे-अ० ७ अ० ७ व० ६ मै० ३) ‘बृहती जागतत्रयश्च गायत्राः’ (पि० सू० ३॥२६) इत्यनेनैव गतार्थमेतत् । संज्ञा विशेषप्रदर्शनार्थ पुनरुच्यते ॥ कंचिन्नवकाश्चत्वारः । ३ । ३३ ।। कविद्वेदे नवाक्षराश्चत्वारः पादा दृश्यन्ते, सापि बृहत्येव । १. ‘मत्सीय’ ‘वृषण’ इति पूल्य विराट्वाद्वा न दोषः । २. ‘मर्तीयम्’ इति पूर्तिः । ३. ‘यदि जागतः पादः पुरो भवति, अन्ते च त्रयो' इति लिखितपुस्तकयोः । ४. ‘असा मिया' इति पूरणात्पादपूर्तिः । ५. कविदिति हि प्रयोगाल्पत्वं सूच्यते इति पइगुरुशिष्यः ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति