पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ छन्दोग्रहणे प्रकृते पुनश्छन्दोग्रहणं छन्दोमात्रप्रतिपत्त्यर्थम् । तेन सर्वेषु छन्दःसु पश्चा. क्षरैकपादलक्षिता शङ्कमती भवति' । इतरथा.ह्यनन्तरं सप्रत्ययः स्यात् । षट्टे ककुदती । ३ । ५६ ।। एकस्मिन् षडक्षरे पादे, अन्येषु यथालक्षणमुपात्तेषु च्छन्दोमात्रं, ककुद्मती नाम । १.-२ उष्णिहो यथा-‘सुवीर्य स्वश्व्यै (१) सुगाव्यमिन्द्र दद्धि नः (२) । होतेव पूर्वचिंत्तये प्राध्वरे ॥' (ऋ० सं० ६॥१॥६॥८) ३ अनुष्टुभो यथा-पितुं नु स्तोषं (१) महो धर्माणं तविषीम् (२) । यस्य त्रितो व्योर्जसा (३) वृत्रं विपर्व मर्दयत् (४) ॥’ (ऋग्वेदे-अ०२अ०५ व०६मं० १) ४ बृहत्या यथा-‘वास्तोष्पते धुवा स्थूणां (१) सत्रं सोम्यानम् (२) । द्वप्सो भेत्ता पुरं शश्वतीना (३) मिन्द्रो मुनीनां सखा (४) ।’ (ऋ० सं० ६॥१॥२४॥४) ५ पङ्कया यथा-‘अझे तव यदुक्थ्यै (१) देवेष्वस्याप्यम् (२) स नः सत्तो मनुष्वदा (३) देवान्यक्षि विदुष्टरो (४) वित्तं मे अस्य रोदसी () ॥' (ऋ० सं०१॥७॥२२॥३) ६ त्रिष्टुभो यथा-‘विधं दद्वाणं सर्मने बहूनाम् (१) । युवान४५ सन्तं पलितो जगार (२) । देवस्य पश्य काव्यं महित्वाद्याममारं (३) ! स झाः समान (४) ॥’ (तै० आ०.४॥२०॥३) २. अत्र 'दकारो ‘यरोऽनुनासिकेऽनुनासिको वा' (पाणि० सू० ८॥४॥४५) इति छन्दसि पाक्षिकः । भाषायां तु यवादिगणे निपातनात् । ककुब्मती, ककुम्मती, इति क. मु.पुस्तके । तत्र १ गायत्र्या यथा—‘नि येन मुष्टिहत्यया (१) नि वृत्रा रुणर्धामहै (२) । त्वोतांसो न्यर्वता (३) ॥’ (ऋ० सं० १॥१॥१५॥२) २ उष्णिहो यथा-‘स्तुहीन्द्रं व्यश्वच (१) दनूर्म वाजिनं यमम् (२) । अर्यो गायं मंहमानं वि दाशुषे (३) ॥' (ऋ० सं०६॥२॥१९॥२) ३ अनुष्टुभो यथा-‘स पूळूर्यो महानां (१) वेनः क्रतुभिरानजे (२) । यस्य द्वारा मनुष्पिता (३) देवेषु धिय आनजे (४) ॥' (ऋग्वेदे-अ०६ अ०४ व० ४२ मं०३) ४ बृहत्या यथा—‘एन् याहि मत्स्वं (१) चित्रेण देवरार्धसा (२) । सरो न प्रा स्युदरं सपतिभि (३) रा सोमेभिरु स्फिरम् (४)॥'(ऋ०सं० ०५अ०७व०१४मं०३) ५ पङ्कया यथा-‘असदत्रं सुवीर्य (१) मुत त्यदाश्वश्व्यम् (२) । देवानां य इं न्मनो (३) यजमान इयक्षत्य (४) भीद्यज्वनो भुवत् ॥’ (ऋ० सं० अ० ६ अ० २ व० ४० मं० ८) ६ त्रिष्टुभो यथा—‘विश्वेदेवा अनमस्यन्भियाना (१) स्वामंझे तर्मसेि तस्थिवां संम् (२) । वैश्वानरोऽवतूतये नोऽमल्यों (३) ऽवतुतये नः (४) ॥ (ऋ० सं० अ० ४ अ० ५ व० ११ मं० ७)