ते प्राणश्छन्दःपरिभाषायामक्षरसध्देनाख्यायन्ते तेषां चाक्षरप्राणान्गं प्रातिखिक: च्छेदो मात्राशब्देन । कयाचिन्मात्रया नियतैरनियतैर्वा तैस्तैरक्षरैरक्छेदसिद्धौ तदवच्छेद काक्षरसंख्यामेदाच्छन्दांसेि भिद्यन्ते । यथाष्टाक्षरा गायत्री, एकादशाक्षरा त्रिष्टुप् , द्वाद शाक्षरा जगती चेत्यादीनि । तत्रैतान्यक्षराणि वाचिकच्छन्दसि वाचिका एव प्राणा भवन्ति । आर्थिके तु छन्दस्यार्थिकाः प्राणाः । प्रसिद्धानि खलु वाविकान्यक्षराणि आर्थिकान्युदाहरामः--तथा हेि शतपथश्रुतावमिरविरूपाया अस्याः पृथिव्याः पृथिवीप्राणरू पस्यान्नेश्च पृथग् पृथग् गायत्रीत्वमुपपादयितुमित्थमाम्रायते—(६ प्र. १॥२॥३६) प्रजापतिर्वा इदमग्र आसीदेक एव । सोऽकामयत-बहु स्यां प्रजायेति । सोऽश्रा म्यन् । स तपोऽतप्यत । तस्माच्छान्तात् तेपानादापोऽसृज्यन्त ॥ १ ॥ तस्मात्पुरुषात्त मादापो जायन्ते । आपोऽबुवन्-क वयं भवामेति । तप्यध्वमित्यब्रवीत् । ता अतप्य न्त । ताः फेनमस्सृजन्त ॥ २ ॥ तस्मादपां तप्तानां फेनो जायते । फेनोऽब्रवीत्-काहं भवानीति । तप्यखेल्यब्रवीत् । सोऽतप्यत । स मृदमसृजत ॥ ३ ॥ एतद्वै फेनस्तप्यते यद्प्खावेष्टमानः उवते । स यदोपहन्यते मृदेव भवति । मृदब्रवीत् काहं-भवानीति । यखेलयब्रवीत् । सातप्यत सा सिकता असृजत ॥ ४ ॥ एतद्वै मृत्तप्यते यदेनां विकृषन्ति तस्माद्यपि सुमात्त्रं विकृषन्ति सैकतमिवैव भवति ( एतावलु तद् यत् काहं भवानि काहं भवानीति ।) सिकताभ्यः शर्करामसृजत ॥ ५ ॥ तस्मात् सिकता शर्करैवान्तो भवति । शर्कराया अश्मानम् ॥ ६ ॥ तस्माच्छर्करामैवान्ततो भवति । अश्मनोऽयः ॥ ७ ॥ तस्मादंश्मनोऽयो धमन्ति । अयसो हिरण्यम् ॥ ८ ॥ तस्माद्यो बहु धमातं हिरण्यसंकाशमिवैव भवति ॥ ९ ॥ तद् यदसृज्यत । अक्षरत् यदक्षरत् तस्मादक्षरम् यदष्टौकृत्वोऽक्षरत् अभूद्धा इयं प्रतिष्ठति । तद्भूमिरभवत् । तामप्रथयत् । सा पृथिव्यभवत् । तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त । भूतानां पतिर्गुहप तिरासीदुषा: पत्नी । तद्यानि तानि भूतानि, ऋतवस्ते ॥ १० ॥अथ यः स भूतानां पतिः संव त्सरः सः । अथ या सोषाः पत्री, औषसी सा । तानीमानि भूतानि स भूतानां च पतिः संवत्सरः उषसि रेतोऽसिञ्चन् । स संवत्सरे कुमारोऽजायत ॥ ११ । सोऽरोदीतू । तं प्रजापतिरब्रवीत् । कुमार, किं रोदिषि, यच्छूमात्तपसोऽधिजातोऽसीति ॥ १२ ॥ सोऽब्रवीत्-अनपहतपाप्मा वृा अस्मि—अविहितनामा, नाम मे धेहीति । तस्मात् पुचवस्य जातस्य नाम कुर्यात्. । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम् , अपि तृत्यम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ १३ ॥ तमब्रवीत्-रुद्रोऽसीति । तद्यदस्य तन्नामाकरोत्—अन्निस्तद्रथमभवम् । अमिर्वे रुद्रः । यदरोदीत्-तस्मा दुद्रः ।। १४ । सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेहेष्व मे नामेति । तम ब्रवीत्-सर्वोऽसीति । तद्यदस्य तन्नामाकरोत् । आपस्तद्रपमभवत् । आपो वै
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति