पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ तत्र गर्भाधानं तावत्खरूपसंपादनोद्देशेन सहधर्मचारिणीक्षेत्रे गर्भाशयरूपे शारीरा प्तिसमीपे वा संस्कार्यस्य संस्थापनं, सोऽयं गर्भभावकः संस्कारो द्रष्टव्यः । तथा च गभ तत्र गर्भ त्वाद् विशेषकसंस्कारा भवन्ति । ‘गर्भाधानवदुपेतो ब्रह्मगर्भ संदधाति । पुंसवनात् पुंसीकरोति, फलस्रपनान्मातापितृजं पाप्मानमपोहति ।' इति हारीतस्मरणात् । त एतेऽन्तर्गर्भसंस्कारा उच्यन्ते । ततो बहिःशालायामिव गृहोदरबहिर्भूते गर्भ शुक्रशो णितोपगतदोषमार्जकत्वादुत्तरे जातकर्म—नामकर्म-निष्क्रमा-न्नप्राशन-कर्णवेध –मुण्डन--स्रानादीनि कतिपयकर्माणि शोधकसंस्कारा भवन्ति । ‘रेतोरक्तगर्भपघात पञ्चगुणः, जातकर्मणा प्रथममपोहति, नामकरणेन द्वितीयम्, प्राशनेन तृतीयम् चूडाकरणेन चतुर्थम्, स्रानेन पञ्चमम्, एतैरष्टभिः संस्कारैर्गभपघातात् पूतो भवति । इति हारीतस्मरणात्।,'एवमेनः शमं याति बीजगर्भसमुद्भवम् ’मनुः) इत्यादिस्मृत्यन्तरे भ्यश्च त एते-गर्भशुद्धिसंस्कारा उच्यन्ते । सोऽयमेतावान् गर्भसंस्कारोऽनुव्रताद्युत्तर संस्कारयोग्यतासम्पत्त्यर्थः पितृकर्तृकश्च । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मण त्वादिघटितवर्णत्वघटितम् । संस्कार्यनिष्ठं तु ब्राह्मणादिवर्णजन्यत्वमेव त्वादिकमपि तत्र फलोपधायकतारूपमपेक्ष्यते अतः परमुपनयनं तावत् खरूपसंपादनोद्देशेन सावित्रीक्षेत्रे ब्रह्मचर्यव्रतरूपे कर्मान्नि समीपे वा संस्कांर्यस्य संस्थापनम् !. सोऽयं वर्णभावकः संस्कारो द्रष्टव्यः । तथा चोपः नयन-व्रतादेश-वेदारम्भ-वेदाध्ययना,ि सावित्रामेयशुक्रियौपनिषदशौलभगोदानभौतिक महानाम्रीव्रतोत्सर्गाः, केशान्तः, संमावर्तनस्रानं चेलेते तत्र ब्राह्मणादिवर्णे यज्ञक्रियायो ग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति तैश्चाष्टभिः खच्छन्दःसम्मितो ब्राह्मणः परं पात्रं देवपितृणां भवति छन्दसां पारं गच्छति छन्दसामायतनम्’ इति हारीतस्मरणात् खाध्यायेन व्रतैर्हॉमैखैविवेनेज्यया शुभैः । महायशैश्च यशैश्च ब्राह्मीयं क्रियते तनुः ॥' (मनुः २॥२८) इत्यादिस्मृत्यन्तरेभ्यश्च । त एते आचार्यकर्तृका अनुव्रतसंस्कारा उच्यन्ते । यद्यपि गाभैहॉमैर्जातकर्मचौडमौजीनिबन्धनै बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥’ (मनुः २॥२७) इति मनुस्मरणात् । ‘सांवत्सरिकस्य चूडाकरणम्, तृतीये वा प्रतिहते, षोडशवर्षस्य केशान्तः ।' इति पारस्करसूत्रे मुण्डनगोदानयोर्गर्भसंस्कारप्रकरणोपात्तत्वादुपनयनके शान्तयोरपि गर्भसंस्कारत्वमाक्षिपन्ति । अथापि दधिदर्शनन्यायेन संभवत्येव कतिपया नामुभयविधसंस्कारत्वमित्यतः प्रकरणतिरेको न दोषायेत्यनुसंधेयम् । ततो बहिःशालायामिव पितृगृहं प्रल्यावृत्त वर्णे ऋणपञ्चकसूनापञ्चकोपगतदोषमार्जक त्वादुत्तरे नैमितिकवार्षिकमासिकादिकात्मकभेदचतुष्टयभिन्नाः शोधकसंस्कारा भवन्ति