पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२

(७)-‘स्वच्छन्दोच्छलदच्छलदच्छकच्छकहरच्छातेराम्य्च्छय इत्यादिषु निष्प्रतिबन्धपुरत्वम्,
(८)- “त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ।
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ ।।'
इत्यादिषु विरेचनपरत्वं वा प्रतिपद्यते; तावतापि नार्थान्तरत्वमापादयितुं युक्तम्।
(१)-विषस्य नाडीमार्गावरोधकतया दैशिकावच्छेदलक्षणत्वात् ॥ (२)-छन्दानुवृत्तीतिपदं तु द्वेधा व्याख्येयम् - छन्दःशब्दस्येच्छापरत्वे-यथा सुहृदामिच्छा स्यात्तथानुवर्तनीयमिति कृत्वा त एते दुःखेन साधयितुं शक्या भवन्ति, सर्वथा परेच्छानुवर्तनस्य दुःखरूपत्वादित्येकोऽर्थः । छन्दःशब्दस्य परिच्छेदपरत्वे तु - वाच्यमवाच्यं देयमदेयमित्येवं मर्यादया व्यवहारनियमेनानुवृत्तौ क्रियमाणायां सुहृद्रो दुःसाधा भवन्ति, मित्रतायाः परिच्छेदासहत्वादित्यन्योऽर्थः । तथा चेच्छापरत्वे वक्ष्यमाणलक्षणम्, परिच्छेदपरत्वे तूक्तलक्षणं छन्दस्त्वं सिद्धमिति नार्थान्तरम् ।
( ३ । ४ । ५ । ६ ।)—अथ ‘श्रोतुं छन्दः’, ‘छन्दमृत्युः' इत्यादिषु तु सर्वत्रैवेच्छार्थकत्वं छन्दःशब्दस्येति न तावदनैकार्थ्यम् । रुच्यादीनामिच्छाविशेषरूपत्वात् । इच्छा चाभिप्रायो मनसश्छन्दः । तथा चाहुः कोशकाराः–‘अभिप्रायश्छन्द आशयः इति । यद्यपि च विषयविशेषाभिमुख्येन मनसः प्रवृत्तिरेवाभिप्रायस्तथाप्युपचारभेदादसौ द्वेधा-मनोगृहीतविषयो वा विषयारूढमनो वा । अस्मिन् विषये कीदृशस्तवाभिप्रायः ? केनाभिप्रायेणागतोऽसि ? धनं नोऽभिप्रेतमित्येतत्सर्वं विषयाभिप्रायम्, । धनाभिप्रायणागतः, द्रष्टुं विज्ञातुं वा ममाभिप्रायः, किमत्राभिप्रैषीति, मनोऽभिप्रायम् इतीत्थमुभयथा व्यवहारदर्शनात् । तत्र मनोगृहीतविषयस्य मनोऽवच्छेदकत्वान्मनश्छन्दस्त्वं भवति । अभिप्रायानुसारेणैव मनसः स्वरूपलाभात् तत्रैव तत्प्रतिष्ठानात्। । अथ विषयसंक्रान्तमनसः खलु मनुष्यावच्छेदकत्वान्मनुष्यच्छन्दस्त्वं भवति । स्वसंयुक्तमनोऽनुरोधेन प्रवर्तमानस्यात्मन एव मनुष्यत्वात् तत्रैव तत्प्रतिष्ठानात् । अत एव यावानस्य देहः सांयौगिका वार्थास्ते सर्वे दीनमनसो दीनाः, उदारमनसस्तूदाराः भवन्ति; नीचमनसो नीचत्वम्, महाशयमनसस्तु महाशयत्वं प्रतिपद्यन्ते । अङ्गुल्य उतिष्ठन्तामित्यभिप्रयत एवास्याङ्गुलय उतिष्ठन्ते, हस्त उत्तिष्ठतामित्यभिप्रयतश्च हस्तः॥ गच्छति तिष्ठेयमिति तिष्ठत्यव्यतिरेकेण। यत्र तु गच्छेयमिति न गच्छति, तत्रेयता कालेन गच्छेयमिति कालविशेषस्य विशेषणविधया विषयीभावो.वा, न गच्छेयमित्येवमभिप्रायविशेषस्य नान्तरीयकसंश्लिष्टस्य प्रतिबन्धकाविषयीभावो वा, सामर्थ्यापचयादिप्रतिबन्धकसद्भावो वा , हेतुः समीक्षणीयः । अत एव, आकूत्यै प्रयुजेऽग्नये स्वाहा' इति । ‘आत्मना वा अग्रे आकुवते यजेयेति []। तमात्मन एव प्रयुङ्क्ते यत्तनुते । ते अस्यैते आत्मन् देवते आधीते भवतः - आकूतिश्च प्रयुक् च। मेधायै

  1. माश https://sa.wikisource.org/s/eri३.१.४.१२