इत्येवं मत्रब्राह्मणाभ्यां तैत्तिरीयकें जगतः प्रतिष्ठायाः शर्कराभिरक्षरस्थानीयभि संभृतत्वादस्याश्छन्दःसामान्यलक्षणे प्राप्त छन्दोविशेषप्रतिपित्सायाम्-- “स वै खलु प्रथमं यजति । तद्वै कनिष्टं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतलोके ओषधीर्दधाति । ता इभा अस्मि लोके ओषधयः प्रतिष्ठिताः । तदिदं सर्वं जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमाम कुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तत्रिष्टुभं वै द्वितीयामकुर्वन् ।” इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कांनष्ठत्वसाध म्यद्रायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । कचितु–“अवस्य श्रेोकस्य स्रग्धराछन्दः,' 'त्रैष्टुभमिदं पद्यमित्यादिवदिहापि भेदेन व्यप दिशन्ति-“गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम्, जागती द्यौः, आनुष्टुभीर्दिशः । . एवं यत्र गार्हपत्यात्प्राधं सन्तमाहवनीयमुद्धर्तु विक्रमाधानं विधीयते तत्र “तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्क्रा मति । एकादशखादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोत्क्रामति । द्वादशखादधीत, द्वादशाक्षरा वै जगती । जगत्यैवेतद्दिवमुपोत्क्रामति । नात्र मात्रास्ति यत्रैव खयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरतेि । तेनैव इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्दःपरिभाषायामक्षरत्वं छुन्द सां मात्रानिबन्धनत्वं च सुव्यक्तमाख्यातमिति द्रष्टव्यम् ॥ एवमन्निष्टोमप्रशंसायामैत “स वा एषा गायत्र्येव घदन्निष्टोमः । चतुर्विशत्यक्षरा वै गायत्री, चतुर्विंशतेिर न्निष्टोमस्य स्लुतशस्त्राणि । स वा एष संवत्सर एव यदन्निष्टोमः । चतुर्विंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरन्निष्टोमस्य स्तुतशस्त्राणि ।' इलेखेवमग्निष्टोमस्य गायत्रीत्वसंवत्सरत्वोपचारप्रसङ्गेन स्तुतशस्राणामक्षरत्वमवगतं भ वति । यत्तु स्तोत्रशस्राणामर्धमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात् तदपवाद्यम् । स्तोत्रशस्रयोरर्धमासत्वासिद्धौ चतुर्वेिशल्यर्धमासत्वरूपसंवत्सरत्वस्याप्यग्-ि श्रेमनिष्ठत्वेनाप्रतिष्ठानापत्तेः । ‘सोऽब्रवीत् प्रजापतिश्छन्दांसि-रथो मे भवत, युष्माभिरहमेतमध्वानम नुसंचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रष्टौ । अनुष्टुप् च पङ्किश्च धुर्यो । बृहयोवोद्धिरभवत् । स एतं छन्दोरथमास्थाय एत मध्वानमनुसमचरत् ।।' इति तैत्तिरीयके छन्दसां रथत्वम्; (१)
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति