अथ किं तावच्छन्दसां तस्वम् ? का विभक्तिः ? किं लक्षणम् ? किं प्रयोजनम् ? इत्या दयश्छन्दःशास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्ममहानुभावैश्छन्दःसमी क्षायां सम्यङ् न्यरूरुपेिषतेति तेषामेवात्र सङ्कहोऽकारि । तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते । तावन्महनीयमहिङ्कोऽपौरुषेयाद्वेदराशेगर्गायत्र्यादिच्छन्दसां यज्ञकर्मणेि विनि युक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्कया तत्र च निर्दिश्यते । पादसङ्रूयामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिः प्रस्तावना । । च्छन्दोहानिर्भवति । तदुक्तम् न वा एकेनाक्षरेण च्छन्दांसि वियन्ति, न द्वाभ्याम्' (ऐ. ब्रा. १. ६ ) *न न्यच्छन्दो भवति. न द्वाभ्याम्’ (सां. ब्रा. २७. १ ) इति । ततो ब्राह्मणग्रन्थेष्वि तस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसाङ्कयायनापस्तम्बादिषु तदुपयोगिनः छन्दसां लक्षणान्यपि ब्राह्म णारण्यकादिभ्यो निष्कृष्य पृथङ्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् । तत्र त्रिपदा गायत्री ( १ ) उष्णिकू (२ ) पुर उष्णिक् (३) ककुप् ( ४ ) विराट् च पूर्वा (५) चतुष्पदोत्तरपदा विराट् (६) बृहती (७) सतो बृहती (८) जगती (९) अनुष्टुप् (१०) त्रिधुप्र च ( ११ ) पञ्च पङ्के ( १२ ) ( १३) स हि शधे न मारुत'मेित्यष्टौ (१४ ) द्वौ द्विपदायाः (१५) तेऽष्टाक्षराः प्रायेण (१६) द्वादशाक्षरा जगत्याः (१७) तृतीयैौ चोष्णिगूबृहत्योः ( १८ ) सतोबृहत्याश्च प्रथम तृतीयैौ ( १९ ) मध्यमः ककुभः (२०) प्रथमः पुर उष्णिहः (२१ ) एकादशाक्षरा त्रिष्टब्विराजोः (२२) उत्तरस्या दशाक्षरः (२३) तामक्ष रपङ्किरित्यप्याचक्षते (२४) पञ्चभिः पञ्चाक्षरैः पदपङ्गिः (२५) पळप्यष्टाक्षरा जगत्याः (२६) एकेन द्वाभ्यामित्यूनके निवृत् (२०) अतिरिक्त भुरिक (२८) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पञ्चा (२९) गायत्र्युष्णिगनुष्टुपूबृहत्यो पङ्किश्च त्रिषुटुप्जात्यावेित्यानुपूब्र्य छन्दसाँ धतुर्विंशत्यक्षरादीनां चतुरुत्तराणाम् (३० ) ( सां. श्रौ. सू. ७. २७ )
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/८०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति