पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्री राव रोड जाम ॐ तत्सद्ब्रह्मणे नमः पाया सामवेदीया छान्दोग्योपनिषत् । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। ( अथ श्रीमच्छंकरभगवत्पादविरचितं भाष्यम् ।) (तब भाष्यकारोपोद्गातः ।) ओमित्येतदक्षरमित्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः संक्षेप. तोऽर्थजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थमिदमारभ्यते । (अथाऽऽनन्दगिरिकृता टीका ।) नमो जन्मादिसंबन्धबन्धविध्वंसहेतवे । हरये परमानन्दवपुषे परमात्मने ॥ १ ॥ नमस्त्रय्यन्तसंदोहसरसीरुहभानवे | गुरवे परपक्षाघध्वान्तध्वंसपटीयसे ॥ २ ॥ छन्दोगानामुपनिषद्भेदं व्याचिख्यासुर्भगवान्भाष्यकारश्विकीर्षितग्रन्थपरिसमाप्तिप्रचयपरि- पन्थिदुरितनिबर्हणसिद्धयर्थमोंकारोच्चारलक्षणं मङ्गलाचरणं संपादयन्व्याख्येयस्वरूपं दर्श. यति-ओमित्येतदिति । व्याख्यानं सप्रयोजनं प्रतिजानीते-तस्या इति । ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह- संक्षेपत इति । विस्तरेण व्याख्यातत्वेऽपि संग्रहतो व्याख्यानमस्याः संप्रणीयते विस्तृ- तस्य संक्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किं च न चेयं यथापाठक्रमं व्याख्याता । प्रकृते तु पाठक्रतमनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याह -ऋजुविवरणमिति । ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् । अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्कयाऽऽह-अल्पग्रन्थ. मिति । तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽऽह--अर्थजिज्ञासुभ्य इति । ये हि मुमुक्षवोऽस्या विवक्षितमर्थ जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तुयते । तथा च विशिष्टाधिकारिसंभवे तदारम्भः संभवति तस्य च प्रकृतोपनिषदर्थ परिज्ञानमवान्तरफलं तद्वारा कैवल्यं परमं फलमिति भावः ।। १ ख. ध. 'रणल। २ क. तेऽत्रा।