पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्ड: ९]. छान्दोग्योपनिषत् । थत्वे हेतुबदादित्यस्य सामत्वे हेतुः । कोऽसौ, सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना सामाऽऽदित्यो मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति । अतः सर्वेण समोऽतः साम समत्वादित्यर्थः । उद्गीथ भक्तिसामान्यवचनादेव लोकादिषू. तसामान्याद्धिंकारादित्वं गम्यत इति हिंकारादित्वे कारणं नोक्तम् । सामत्वे पुनः सवि तुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥ १ ॥ वाग्दृष्टेरनन्तरमादित्यदृष्टिविधीयते । तस्य वाङ्मयत्व!त् । न च तद्विधानं युक्तम् । पर्वमप्यादित्यदृष्टिविशिष्टोपासनस्योपदिष्टवादित्याशङ्कयाऽऽह-अवयवमात्र इति । तस्य सामत्वे हेतुं पृच्छति-कथमिति । सर्वदेत्यादिवाकर मुत्तरत्वेनाऽऽदत्ते-उच्यत इति । उच्चैः सन्तमादित्यं गायन्तीत्यादित्यस्योद्गीथत्वे हेतुः श्रुयोक्तः । तथा सामत्वेऽपि तस्य हेतरुच्यत इत्यर्थः । तमेव प्रश्नपूर्वकं विवृणोति-कोऽसाविति । नोदेता नास्तमेतेत्यादि. दर्शनादित्यर्थः । मां प्रतीत्यादि व्याचष्टे-मां प्रतीति । अन्यशब्दस्यान्यत्र वृत्तिान्तरण किंचिन्निमित्तमित्यादित्यस्य सामन्ये हेतुरुच्यते चेत्तद्देदानां हिंकारादित्वेऽपि कुतो निमित्तं श्रुत्या नोक्तभित्याशङ्कयाऽऽह-उद्गीथेति । आदित्यस्योद्गीथेन सहोयत्वं सामान्यं श्रुत्योक्तं तदनुसारेणास्मदुक्तप्राथम्यादिसामान्यं यथा पृथिव्य.दिषु हिंकारादित्वं गम्यते तथाऽऽदि- समभेदानामपि हिंकारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्तं कारणमित्यर्थः । तर्हि सामत्वेऽपि कारणो प्रेक्षासंभवान्न वक्तव्यं कारणमित्याशङ्कयाऽऽह-सामत्वे पुनरिति । समत्वं तत्र निमित्तमिति यावत् ॥ १ ॥ तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्या- त्तस्य यत्पुरोदयात्स हिंकाररतदस्य पशवोऽन्वाय- तास्तस्मात्ते हिं कुर्वन्ति हिंकासाजिनो ह्येतस्य सान्नः ॥ २॥ तस्मिन्नादित्येऽवयवविभागश इमानि वक्ष्यमाणानि सर्वाणि भूतान्यन्वाय- तान्यनुगतान्यदित्यमुपजीव्यत्वेनेति विद्यात् । कथं, तस्याऽऽदित्यस्य यत्पुरोद- याद्धर्मरूपं स हिंकारो भक्तिस्तत्रेदं सामान्यं यत्तस्य हिंकारभक्तिरूपं तदस्याऽऽ- दित्यस्य साम्नः पशवो गवादयोऽन्वायत्ता अनुगतास्तद्भक्तिरूपमुपजीवन्ती- त्यर्थः । यस्मादेवं तस्मात्ते हिं कुर्वन्ति ६शवः प्रागुदयात् । तस्मादिकारभाजिनो १ घ. ङ. ड. थत्वहे । २ ख. . 'दिलया । ३ ख. च. ङ. छ. . °ति वा तु। ४ ड, ढ. थसा। . ख. छ. अ. "शिष्टस्पोपा । ६ ख. छ. ञ.यत्वसा।