पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- ह्येतस्याऽऽदित्याख्यस्य साम्नस्तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते ॥ २ ॥ समः सर्वेणेत्युक्तं व्यक्ती करोति-तस्मिन्निति । वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति- कथमित्यादिना । धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तदृष्ट्या हिंकारोपासने प्राथम्यं हेतुः । पशवो यथोक्तमादित्यरूपमुपजीवन्तीत्यत्र किं प्रमाणं तदाह- यस्मादिति । तेषां हिंकरणं साधयति-तस्मादित्यादिना । तद्भक्तिभजनशीलत्वादिस्य स्मा प्रागेव तस्मादित्यस्य संबन्धः ॥२॥ अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशश्मा- कामाः परतावभाजिनो ह्येतस्य साम्नः ॥ ३॥ अथ यत्प्रथमोदिते सवितृरूपं तदस्याऽऽदित्याख्यस्य साम्नः स प्रस्तावस्त- दस्य मनुष्या अन्वायत्ताः पूर्ववत् । तस्मात्ते प्रस्तुति प्रशंसां कामयन्ते । यस्मात्प्रस्तावमाजिनो होतस्य साम्नः ॥३॥ _सवितरि प्रथमोदिते सति यत्तस्य रूपं तदृष्ट्या प्रस्तावस्योपास्यत्वे पूर्वस्मादानन्तर्य हेतुः । यथोदयात्प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह-पूर्ववदिति | उदयात्पराचीनमा- दित्यरूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह-तस्मादिति । प्रत्यक्षपरोक्षभावेन प्रस्तुति- प्रशंसयोर्भेदः ॥३॥ अथ यत्संगववेलाया स आदिस्तदस्य वया५- स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणा- न्यादायाऽऽत्मानं परिपतन्त्यादिक्षाजीनि ह्येतस्य साम्नः॥४॥ अथ यत्संगववेलायां गवां रश्मीनां संगमनं संगमो यस्यां वेलायां गा वा वत्सः सा संगववेला तस्मिन्काले यत्सावित्रं रूपं स आदि- भक्तिविशेष ओंकारस्तदस्य वयांसि पक्षिणोऽन्वायत्तानि । यत एवं पण १ ख. प. ङ. ञ. ट. ठ. ड. ढ. शीलो हि ते व° । २ क. ग. ट. रूपत्वं स। ३ ख. ङ, ञ. ट. ढ. म्नः । ४ क. ख..ड. ढ.न्ते । तस्मा । ५ ख. अ. क्षेणाऽऽ1 ६ क. ग. घ. इ. च.ट. ठ, ढ. गवो य°। ७ क. च. वांव । ८ क. ख. ग. च.न.ट. ठ, से; सह सं। -- -