पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः९] या छान्दोग्योपनिपत् । तस्मात्तानि वयांत्यन्तरिक्षेऽनारम्बणान्यनालम्बनान्यात्मानमादायाऽऽत्मान. मेवाऽऽलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्त्यत आकारसामान्यादादिभाक्ति- भाजीनि ह्येतस्य सान्नः ॥ ४॥ गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन संगमनं संबन्धगमनमित्यर्थः । वत्सः संगमन- मिति संबन्धः । संगवकालीनमादित्यरूपमारोप्याऽऽदिभक्तेरोंकारस्योपास्यत्वे द्वयोराकार- सामान्यं हेतुः । पक्षिणां यथोक्तमादित्यरूपमुपजीव्यमित्यत्र हेतुमाह—यत इति ॥४॥ अथ यत्संप्रति मध्यंदिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथ- भाजिनो ह्येतस्य साम्नः ॥ ५॥ अथ यत्संप्रति मध्यंदिन ऋजुमध्यंदिन इत्यर्थः । स उद्गीथभक्तिस्तदस्य देवा अन्वायत्ताः। द्योतनातिशयात्तत्काले । तस्मात्ते सत्तमा विशिष्टतमाः भाजापत्यानां प्रजापत्यपत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५॥ ऋजुमध्यंदिने यदादित्यस्य रूपं तदृष्टयोद्गीथोपासने श्रेष्ठ्यं हेतुः । तत्कालीनादित्य- रूपस्य देवोपजीव्यत्वे हेतुमाह--द्योतनेति । तथाऽपि तस्य देवरुपजीव्यत्वं कथमिति चेत्तत्राऽऽह-तस्मादिति ॥ ५॥ अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रनिहारस्त- दस्य गर्भा अन्वायत्तास्तस्माते प्रतिहृता नावा- यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥६॥ अथ यदूर्व मध्यंदिनात्मागपराह्लाद्यद्रूपं सवितुः स प्रतिहारस्तदस्य गर्भा अन्वायत्ताः । अतस्ते सवितुः प्रतिहारभक्तिरूपेणो प्रतिहृताः सन्तो नाव- पद्यन्ते नाधः पतन्ति तद्वारे सत्यपीत्यर्थः । यतः प्रतिहारभाजिनो ह्येतस्य साम्नो गर्भाः ॥ ६॥ अथ यद्धमिति वाक्यमादाय व्याचष्टे-मध्यंदिनादिति । तद्दष्टया प्रतिहारो- पासने प्रतिशब्दसामान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् । यथोक्त १ ख. ऊ. च. न. ड. क्षेणान्तरिक्ष आरम्बगान्याल'। २ ग. दिने सवितुर्मध्यं । ३ क. ग. घ. इ. ट, ट. ड. ढ. 'न्ति दारे । ४ क. ग. ट. साम्यं हे।