पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- मादित्यरूपं गभैरुपजीव्यमित्यत्र गमकमाह-अत इति । ऊर्ष योनेरुपरिष्टाजठरं प्रतीत्यर्थः । यते। गर्भाः पूर्वोक्तविशेषणवन्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥ अथ यदूर्ध्वमपराहात्यागस्तमयात्स उपवस्तद- स्याऽऽरण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षर श्वनमित्युपदवन्त्युपद्वभाजिनो ह्येतस्य साम्नः ॥७॥ अथ यदृर्वमपराहात्मागस्तमयात्स उपद्रवस्तदस्याऽऽरण्याः पशवोऽन्वा- यत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्यु. पगच्छन्ति दृष्ट्वोपद्रवणादुपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७॥ तत्र तत्कालीनादित्यदृष्टयोपद्रवमुपासीत तस्य तदाऽस्ताचलं प्रत्युपद्रवणादित्याह- अथेति । आरण्यानां पशूनां यथोक्तरूपोपजीवनमुपपादयति--तस्मादित्यादिना । श्चभ्रं गतं गुहेति यावत् ॥ ७॥ अथ यत्प्रथम स्तमिते तन्निधनं तदस्य पितरोऽ- न्वायत्तास्तस्मात्तानिदधति निधनाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्य ५ सप्तविध५ सामोपास्ते॥८॥ इति द्वितीयाध्यायस्य नवमः खण्डः॥९॥ • अथ यत्प्रथमास्तमितेऽदर्शनं जिगमिपति सवितरि तनिधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तानिद रति पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तांस्तदर्थ पिण्डान्वा स्थापयन्ति । निधनसंबन्धान्निधनभाजिनो ह्येतस्य साम्नः पितरः । एवमवयवशः सप्तधा विभक्तं खल्वमुमादित्यं सप्तविधं सामोपास्ते यस्तस्य तदापत्तिः फलमिति वाक्यशेषः ।। ८॥ इति द्वितीयाध्यायस्य नवमः खण्डः ॥ ९ ॥ तत्सवितृरूपमिति शेषः । तदृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथोक्तमा- दित्यरूपं पितृभिरुपजीव्यमित्यत्र गमकमाह--तस्मादित्यादिना । तत्र तत्राथशब्द- १ ख. ङ. च. ज. ढ, 'वमेवाव । २ ख. इ. ञ, द. ते तस्य ।