पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये-- सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्टयोपासनमि. त्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा साऽत्येकाऽनेकेष्वक्षरेषु तत्सामान्येन तेष्व. क्षरेष्वादित्यदृष्टया मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः । अति. मृत्यु मृत्योरत्ययहेतुत्यादित्युक्तमेव स्पष्टयति--मृत्युमिति । नामाक्षराणि कथ्यन्त इति शेषः ॥ १॥ आदिरिति यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २॥ आदिरिति व्यक्षरं सप्तविधस्य साम्नः संख्यापूरण ओंकार आदिरित्युच्यते । प्रतिहार इति चतुरक्षरम् । तत इहैकमक्षरमवच्छिद्याऽऽद्यक्षरयोः प्रक्षिप्यते । तेन तत्सममेव भवति ॥२॥ आद्यक्षरयोरादिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रति- हारनाम्ना तुल्यमेवेत्यर्थः ॥ २ ॥ उद्गीथ इति यक्षरमुपदव इति चतुरक्षरं त्रिभि- त्रिभिः समं भवत्यक्षरमतिशिष्यते व्यक्षरं तत्स- मम् ॥ ३॥ उद्गीथ इति ब्यक्षरमपद्रव इति चतरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमति. शिष्यतेऽतिरिच्यते । तेन वैषम्ये प्राप्ते साम्नः समत्वकरणायाऽऽह-तदेकमा सदक्षरमिति व्यक्षरमेव भवति । अतस्तत्समम् ॥ ३ ॥ ॥ ३ ॥ निधनमिति व्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविशतिरक्षराणि ॥४॥ निधनमिति व्यक्षरं तत्सममेव भवति । एवं व्यक्षरसमतया सामत्वं संपाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते-तानि ह वा एतानि सप्तभक्तिनामाक्ष. राणि द्वाविंशतिः॥४॥ ननु यथोक्तयों रीत्या चतुर्विशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षरा- गीति तत्राऽऽह-एवमिति ॥ ४ ॥ १ क. ग. ट, 'दित्यादिद्व । २ ग. ट. तिल । ३ क. ग. ट. कमाय । ४ क. °करी । ५ छ. 'या नीत्या ।