पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः १०] छान्दोग्योपनिषत् । ९७ एकविशत्याऽऽदित्यमामोत्येकविश्शो वा इतोऽसा- वादित्यो द्वाविश्शेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५॥ तत्रैकविंशत्यक्षरसंख्ययाऽऽदित्यमाप्नोति भृत्युम् । यस्मादेकविंश इतोऽस्मा- ल्लोकादसावादित्यः संख्यया । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावा. दित्य एकवि श इति श्रुतेरतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योरादित्याज्जयत्या- मोतीत्यर्थः । यच्च तदादित्यात्परं किं तत् । नाकं कमिति सुखं तस्य प्रतिषे- धोऽकं तन्न भवतीति नाकं कमेवेत्यर्थः । मृत्युविषयत्वादुःखस्य विशोकं चं तद्विगतशोकं मानसदुःखरहितमित्यर्थः । तदानोतीति ॥ ५ ॥ ____ आदित्यस्यास्म ल्लोकादेकविंशत्वें श्रुत्यन्तरं प्रमाणयति-द्वादशेति । हेमन्तशिशिरावेकी. कृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिल्होके दृश्यते। तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह- मृत्युविषयत्वादिति ॥ ५॥ आमोति हाऽऽदित्यस्य जयं परो हास्याऽऽदित्यज- याज्ज यो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविध सामोपास्ते सामोपास्ते ॥ ६ ॥ इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ उक्तस्यैवं पिण्डितार्थमाह-एकविंशतिसंख्ययाऽऽदित्यस्य जयंमाप्नोति । परो हास्यैवंविद आदित्यजयान्मत्युगोचरात्परो जयो भवति द्वाविंशत्यक्षरसं- ख्ययेत्यर्थः । य एतदेवं विद्वानित्यायुक्तार्थम् । तस्यैतद्यथोक्तं फलमिति द्विर- भ्यासः साप्तविध्यसमाप्त्यर्थः ॥६॥ इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ १ ख. अ. विशी वा इ । २ ड.ड. ढ. रं ना'। ३ क. ट. °त्वात्तद्दुः । ४ च. ड. च मा । ५ क. ट. लात्तददुः । ६क. ख. ग. ङ. झ. ट. ड. मोतीहा । ७ ख. घ. ङ. ञ. ठ. ड. द. व पिण्डार्थ । ८ ङ. च. ड. ढ. यमनुप । ९ ख. र. मोत्यनुप । १० घ. ङ. सामविद्यास। ₹3