पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ आनन्दगिरिकृसटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याय- पूर्वेणोत्तररय पोनरुक्त्यमाशङ्कयाऽऽह-उक्तस्यैवोति । व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तन्न पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति संबन्धः । परो हास्येत्युपत्तं वाक्यं व्याकरोति—एवंविद इति । फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥ ६॥ या इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ (अथ द्वितीयाध्यायस्यैकादशः दण्डः ।) मनो हिकारो वाक्प्रस्तावश्चक्षरुद्दीथः श्रोत्रं प्रति- हारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥ विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च सान्न उपासनमुक्तम् । अथे. दानी गायत्रादिनामग्रहणपूर्वक विशिष्टफलानि सामोपासनान्तरण्युच्यन्ते । यथाक्रम गायत्रादीनां कर्मणि प्रयोगस्तथैव मनो हिकारो मनसः सर्वकरण- वृत्तीनां प्राथम्यात् । तदानन्तर्याद्वाक्यस्तावश्चक्षुरुद्गीथः श्रेष्ठयात् । श्रोत्रं प्रति- हारः प्रतिहतत्वात् । प्राणो निधनं यथोक्तानां प्राणे निधनात्स्वापकाले । एत- गायत्रं साम प्राणेषु प्रोतम् । गायत्र्याः माणसंस्तुतत्वात् ।। १॥ ननु पञ्चविधस्य सप्तविधस्य च सानो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्त व्याभावादलमनन्तरमन्थेनेत्याशङ्कय पूर्वोत्तरग्रन्थयोरर्थभेदमाह-विनेत्यादिना । गायत्रं रथंतरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः । कथं पुनर्वक्ष्यमाणेपास. नेषु निर्देशक्रमसिद्धिस्तत्राऽऽह-यथाक्रममिति । यादशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः । तत्र प्राणस्य क्रियाज्ञानयोरसं. भवात्प्राणस्य प्रधानत्वात्तदृष्टया गायत्रोपास्तिमादौ दर्शयति-मनो हिंकार इत्यादिना। प्राणमेव वागव्यतीत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् । गायत्रस्य प्राणेषु प्रतिष्ठिः त्वे हेतुमाह-गायच्या इति । प्राणा वै गायत्रीति हि श्रुतिः ॥ १ ॥ स य एवमेतद्वायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्र- १ क. ग. ङ. ट. ठ. °णप' । २ क. ख. ग. छ. "दृशक । ३ क. ग. ठ प्राण ता है वा । ४ ख.म.वाये ।