पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् । जया पशुभिर्भवति महान्का महामनाः स्यात्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ __ स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति । अविकलकरणो भवतीत्येतत् । सर्वमायुरेति । शतं वर्षाणि सर्वमायुः पुरुषस्येति श्रुतेः । ज्योगुज्ज्वलं जीवति । महान्भवति प्रजादिभिमहांश्च कीत्यो । गायत्रापासक- स्यैतव्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः ॥ २॥ इति द्वितीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ . अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्य फलमित्याशङ्कयाऽह-अविकलेति । कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्कयाऽऽह-शतमिति । शतायुर्वे पुरुष इति श्रुतरित्युच्यते । ज्योक्शब्दो निपातः । स चोज्ज्वलनार्थः । उज्ज्वलः स्व.रो. पकारसमर्थ इति यावत् ॥ २॥ इति द्विनीयाध्यायस्यैकादशः खण्डः ।। ११ ।। (अथ दिनीयाध्ययस्य द्वादशः खण्डः ।) अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधन सशाम्यति तन्निधनमेतद्रथंतरमनौ प्रोतम् ॥ १ ॥ अभिमन्थति स हिंकारः प्राथम्यात् । अग्नेधूमो जायते स प्रस्ताव आनन्त- यात् । ज्वलति स उद्गीथो हविःसंबन्धाच्छ्रेष्ठयं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारोऽङ्गाराणां प्रतिहतत्वात् । उपशमः सावशेषत्वादग्नेः संशमो निःशे. पोपशमः समाप्तिसामान्यानिधनमेतद्रथंतरमग्नौ प्रोतम् । मन्थने थेग्नेर्गीयते ॥१॥ समग्रप्राणवतो मन्थनकर्तृत्वसंभवात्प्राणदृष्टय नन्तरं मन्थनादिदृष्टिमवतारयति-अभिम- १ ख. ङ. च. ञ. ढ. मनस्त्वमक्षु । २ क. ग. घ. ङ. ज. ठ. बमिर्गी ।