पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता-[२ द्वितीयाध्याये- न्थतीत्यादिना । उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्कय सावशेषनिरवशेषत्वाभ्यां विशेषमाह-उपशम इति । कथं पुना रथंतरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किंचिन्निमित्तमुपलभ्यतेऽत आह-मन्थने हीति । मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथं- न्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥ १॥ स य एवमेतदथंतरमनौ प्रोतं वेद ब्रह्मवर्चस्य- नादो भवति सर्वमायुरेति ज्योग्जीवति महा- प्रजया पशुभिर्भवति महान्कीा न प्रत्यङ- निमाचामेन्न निष्ठीवेत्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दीप्ताग्निः । न प्रत्यङ्ङग्नेरभिमुखो नाss- चामेन्न पक्षयेत्किचिन्न निष्ठीवेच्छ्लेष्मनिरसनं च न कुर्यात्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ नन्वत्र ब्रह्मवर्चसीति फलमुक्त बृहदुपासने तु तेजस्वी भवतीति वश्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथंतरोपासनयोन फलवैषम्पमत आह-वृत्तेति ॥ २॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ द्वितीयाध्यायस्य त्रयोदशः खण्डः ।) उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्दीथः प्रति स्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥ उपमन्त्रयते संकेतं करोति प्राथम्यात्स हिंकारः । ज्ञपयते तोषयति 3. ठ. 'नोदीय । २८. मिममे । ३ क. ग. व. ङ. ज. झ. ट. ट. °ति स्त्री स° !