पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः ख-डः १३ ] छान्दोग्योपनिषत् । १०१ स प्रस्तावः । सहशयनमेकपर्यङ्कगमनं स उद्गीथः श्रेष्ठ्यात् । प्रति स्वीं शयनं स्त्रिया अभिमुखीभावः स प्रतिहारः। कालं गच्छति मैथुनेन पारं समाप्ति गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् । वायवम्बुमिथुनसंबन्धात् ॥१॥ ___उत्तराधरारणिस्थानीययोः स्त्रीपुरुषयोरवाच्ये कर्मणि प्रवृत्तयोर्मन्धनसामान्यान्मन्थनादि- दृष्टयनन्तरं मैथुनदृष्टिं विदधाति-उपमन्नयत इत्यादिना । पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मिन्प्रारम्मसामान्या प्रस्तावदृष्टिरित्याह-ज्ञपयत इति । कुतो वामदेव्यस्य स म्नो निथुने प्रोतत्वं तत्राऽऽह-वाय्यम्बुमिथुनोति । वायोरपां च मिथुनतया संबन्धाद्वामदेव्योत्पत्तेरुक्तत्वात्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥ १॥ स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्मजायते सर्वमायुरेति ज्यो- उजीवति महान्मजया पतिविति महान्का न कांचन परिहरेत्तद्वतम् ॥ २॥ इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३॥ सु य इत्यादि पूर्ववत् । मिथुनी भवत्यविधुरो भवतीत्यर्थः । मिथुना- मिथुनात्मजायत इत्यमोघरेतस्त्वमुच्यते । न कांचन कांचिदपि स्त्रियं स्वात्म- तल्पमाप्त न परिहरेत्समागमार्थिनीम् । वामदेव्यसामोपासनाङ्गत्वेन विधानात् । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्याच्च धर्मावगतेने प्रतिषेधशास्त्रे- णास्य विरोधः ।। २ । इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ न कांचनेतिवाक्यमादाय व्याचष्टे-कांचिदपीति । पराङ्गनां नोपगच्छेदिति स्मृति- विरोधमाशङ्कयाऽऽह--वामदेव्येति । विधिनिषेधयोः सामान्यविशेषविषयत्वेन व्यवस्था प्रसिद्धति भावः । किं च शास्त्रप्रामाण्यादत्र धर्मोऽवगम्यते न कांचन परिहरेदिति च शास्त्रा- वगतत्वादवाच्यमपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुबैलायाः स्मृतेर्न प्रतिस्पर्धि- १ क. ग. च. ट. के ग° । २ ख. ग. घ. ङ. च. अ. ट. ड. ढ. मनमुद्गी । ३ क. ग. घ. डा. च. ट. ठ. ड. ह. ण. तिस्त्रीश। ४ क. ख. ग. ङ. अ. ट. उ. ड. ढ. ण. स्त्रियोऽभि । ५ ख. च. ञ, ड, तिं च ग । ६ ख. छ. ञ. न्यना।