पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- तेत्याह-वचनेति । यथोक्तोपासनावतो ब्रह्मचर्यनियमाभावो व्रतत्वेन विवक्षितस्तन्न प्रतिषेधशास्त्रविरोधाशङ्केति भावः ॥२॥ इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ (अय द्वितीयाध्यायस्य चतुर्दशः खण्डः ।) उद्यन्हिकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽ. पराह्नः प्रतिहारोऽस्तं यन्निधनमेतबृहदादित्ये "प्रोतम् ॥१॥ उद्यन्सविता स हिंकारः प्राथम्यादर्शनस्य । उदितः प्रस्तावः प्रस्तवन- हेतुत्वात्कर्मणाम् । मध्यंदिन उद्गीथः श्रेष्ठयात् । अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हरणात् । यदस्तं यस्तन्निधनं रात्रौ गृहे निधानात्माणिनाम् । एत. बृहदादित्ये प्रोतं बृहत आदित्यदै(दे)वत्यत्वात् ॥१॥ आदित्यस्य प्रजाप्रसबहेतुत्वात्तद्धेतुमैथुनदृष्टयनन्तरमादित्यदृष्टिमुत्थापयति--उद्यन्नि त्यादिना ॥१॥ स य एवमेतबृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशु- भिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तव्रतम्॥२॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ स य इत्यादि पूर्ववत् । तपन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ॥२॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ १ ख. अ. धन्यः सवि । २ क. ग. प. ङ. च. ट. ट. ड. द. "त्। अस्तं । ३ घ. च. उ. स्तं यन्नि । ४ञ, ट, निधना।