पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६.] 1. छान्दोग्योपनिषत् । ( अथ द्वितीयाध्यायस्य पञ्चदशः खण्डः।) L अनाणि संप्लवन्ते स हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वै रूपं पर्जन्ये प्रोतम् ॥ १ ॥ अभ्राण्यभरणान्मेघ उदकसैक्तृत्वात् । उक्तार्थमन्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात् । अभ्रादिभिः पर्जन्यस्य वैरूप्यम् ॥ १॥ आदित्याज्जायते वृष्टिरिति स्मृतेरादित्यकार्यत्वात्पर्जन्यस्याऽऽदित्यदृष्टयनन्तरं पर्जन्य- दृष्टिं दर्शयति-अभ्राणीति । कथं वैरूपं साम तस्मिन्प्रतिष्ठितं तत्राऽऽह–अने. केति ॥१॥ स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपा- 10 श्च सुरूपाश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जी- वति महान्प्रजया पशुभिर्भवति महान्कीा वर्षन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ।। १५॥ विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्रामोतीत्यर्थः । वर्षन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ॥२॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अथ द्वितीयाध्यायस्य षोडशः खण्डः । ) वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः १च. °ज्यम्बुभर । २ ख. प. ङ. न्मेवा उ° । ३ ख. घ, ङ, सेककृत्त्वात् ।