पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ आनन्दागार कृतटीकासंबलितशांकरभाष्यसमेता-२ द्वितीयाध्याये- शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ १॥ वसन्तो हिंकारः प्राथच्यात् । ग्रीष्मः प्रस्ताव इत्यादि पूर्ववत् ॥१॥ पर्जन्यायत्तत्वाहतुव्यवस्थायास्तदृष्टरनन्तरमृतु दृष्टिमाचष्टे-बसन्त इत्यादिना ॥१॥ स य एवमेतद्वैराजमृतुषु प्रोतं बेद विराजति प्रजया पशुभिब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जी- वति महान्प्रजया पशुभिर्भवति महान्कीर्त्यर्तृन्न निन्देत्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य षोडशः खण्डः ॥ १६ ॥ एतद्वैराजमृतुषु प्रोतं वेद विराजति ऋतुवर्धवर्तव आतंवैधविराजेंन्त एवं प्रजादिभिर्विद्वानित्युक्तमन्यत् । ऋतून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पोडशः खण्डः ।। १६ ॥ वैराजस्य साम्नो युक्तमतुषु प्रोतत्वं तेषां स्वधर्मविराजनादित्याह-एतदिति । यदर्त. नामन्नोत्पत्तिनिमित्तत्वाद्विराडा मनश्चान्नत्वात्तस्य तेषु प्रतिष्ठितत्वात्तद्वारा बैराजमपि साम तेष प्रोतमिति भावः ।। २ ॥ इति द्वितीयाध्यायस्य षोडशः खण्डः ॥ १६ ॥ (अथ दितीयाध्यायस्य सप्तदशः खण्डः ।) पृथिवी हिकारोऽन्तरिक्ष प्रस्तावो द्यौरुद्दीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्र्यो लोकेषु . प्रोताः ॥ १ ॥ पृथिवी हिंकार इत्यादि पूर्ववत् । शकर्य इति नित्यं बहुवचनं रेवत्य इव । लोकेषु प्रोताः ॥ १॥ . १ ख. घ. ङ. ड. द. प्राधान्यात् । २ क. दृष्यस' । ३ ख. अ. अथाऽऽतवति । ४ ख... °जत ए।