पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः १८] छान्दोग्योपनियत् ।। १०५ ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसिद्धत्वादृतुदृष्ट्य नन्तरं लोकदृष्टिमाह-पृथिवीति । कथं शकर्य इत्येकस्यैव सानो नामधेयं बहुचचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह- शकर्य इतीति । नित्यबहुवचनत्वमुभयत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति- रेवत्य इवेति । महानाम्नीषु ऋक्षु शकों गीयन्ते । तासां चाऽऽपो वै महानाम्नीरि- त्याद्भिः संबन्धः स्मृतः । अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मात्संबन्धालो- केषु शक्कर्यः प्रतिष्टिता इत्याह-लोकेंग्विति ॥ १ ॥ स य एवमेताः शक्कों लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया प्रशुभिर्भवति महान्कीर्त्या लोकान्न निन्देत्तद्व- तम् ॥२॥ इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ लोकी भवति लोकफलेन युज्यत इत्यर्थः । लोकान्न निन्देत्तव्रतम् ॥ २॥ - इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ ॥२॥ इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ (अथ द्वितीयाध्यायस्याटादशः खण्डः ।) अजा हिकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः 'प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥ 'अजा हिंकार इत्यादि पूर्ववत् । पशुपु मोताः ॥ १॥ पशूनां लोककार्यत्वालोकदृष्टयनन्तरं पशुदृष्टिमुपन्यस्यति-अजेति । रेवत्य इति सामनामधेयं पूर्ववन्नित्यबहुवचनान्तम् । पशवो १ रेवतीरिति श्रुत्यन्तरमाश्रित्याऽऽह- पशुश्विति ॥ १ ॥ स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्म- १ ख. ब. डा. न. न संयु।