पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशः खण्डः २०] छान्दोग्योपनिषत् । । १०७ ___ अङ्गी भवति समग्राङ्गो भवतीत्यर्थो नाङ्गेन हस्तपादादिना विहूर्छति न कुटिली भवति पङ्गु *कुणी वेत्यर्थः । संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयान भक्षयेत् । बहुवचनं मत्स्योपलक्षणार्थम् । मज्ज्ञो नाश्नीयात्सर्वदेव नाशीयादिति वा तव्रतम् ।। २ ॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ कुणिः श्मश्रुरहितः ॥२॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ ( अथ द्वितीयाध्यायस्य विंशः खण्डः।) अमिहिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥ अग्निर्हिकारः प्रथमस्थानत्वात् । वायुः प्रस्ताव आनन्तर्यसामान्यात् । आदित्य उद्गीथः श्रेष्ठयात् । नक्षत्राणि प्रतिहारः प्रतिहृतत्वात् । चन्द्रमा निधनं कर्मिणां तन्निधनात् । एतद्राजनं देवतासु प्रोतं देवतानां दीप्तिम- वात् ॥ १॥ अग्न्यादीनामङ्गेषु प्रतिष्टितत्वाददृष्ट्यनन्तरमग्न्यादिदृष्टिमुत्थापयति--अग्निरित्या. दिना । राजनरय साम्नो देवतासु प्रोतवे हेतुमाह-देवतानामिति ।। १ ।। स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देव- ताना सलोकता५ साटिता सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भ- पति महान्कीर्त्या ब्राह्मणान्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य विंशः खण्डः ॥ २० ॥

  • इदं द्विवचनं कुत्सित करवाचकस्य प्रसिद्धत्वाच्छ्मश्रुाहितवाचकस्याप्रसिद्धत्वादेकस्यैष

टीकायां व्याख्यानम् । १ ख. निधाना ।