पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्डः २१ छान्दोग्योपनिषत् ।। रादिसामभक्तय उपास्याः । अती तेष्वपि सामोपासनेषु येउं येषु प्रोतं यद्यत्सामा तदृष्टया तदुपास्यमिति । कर्माङ्गानां ( णां) दृष्टिविशेषणोज्यस्येव संस्का- यत्वात् ॥ १ ॥ अग्न्यादिदृष्टयनन्तरं त्रयीविद्या दृष्टिविधाने कारणमाह-अग्न्यादीति । यदान्याद्या. त्मकं सामोपास्यमुक्तं तस्मादानन्तर्यमुपास्यायास्त्रयीविद्याया युज्यते । ऋग्वेदोऽग्नेर्यजुर्वेदो वायोरादित्यात्सामवेद इति श्रुतेस्त्रय्यास्तकार्यत्वावगमादित्यर्थः । तत्कार्यत्व त्रयीसाध्य- कर्मफलत्वादित्यर्थः । कथं सर्वस्मिन्प्रोतमित्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह-त्रयीविद्यादीति । कथं पुनरत्र त्रयीविद्यादिदृष्टया सानो ध्येयत्वं गम्यते तत्राऽऽ. ह-त्रयीति । न चास्यां प्रतिज्ञायां पूर्वेण संदर्भेण विरोधः शङ्कामर्हतीत्याह–अती. तेष्वपीति । तत्र हेतुमाह-कोङ्गाना (णा) मिति । दर्श पूर्णमासाधिकारे पैन्य- वेक्षितमाज्यं भवतीति दृष्टिविशेषणमाज्य: संस्क्रियते । तथा सामप्रभेदानां दृष्टिविशेषणत्वा- विशेषात्तेषां कर्माङ्गानां ( णां ) तत्तदृष्टया संस्कर्तव्यत्वादित्यर्थः ॥ १॥ स य एवमेतत्साम सर्वस्मिन्मोतं वेद सर्वह भवति ॥ २ ॥ सर्वविषयसामविदः फलं.-सर्व ह भवति सर्वेश्वरो भवतीत्यर्थः । निरुपचरित तसर्वभावे हि दिवस्थेभ्यो बलिमाप्त्यनुपपत्तिः ।। २॥ अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह--निरुपचरितेति ॥ २॥ तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेश्यो न . ज्यायः परमन्यदस्ति ॥ ३ ॥ तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽप्यस्ति । यानि पञ्चधा पञ्चप्रकारेण हिंकारादिविभागः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यो ज्यायो महत्तरं परं च व्यतिरिक्तमन्यद्वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः । तत्रैव हि सर्वस्यान्तर्भावः ॥ ३ ॥ ___ सर्वविषयसामविदः सर्वेश्वरत्वमित्यत्र मन्त्रं संवादयति तदेतस्मिन्निति । परमित्य- स्यैव व्याख्यानमन्यदिति । वस्वन्तराभावे हेतुमाह-तत्रैवति ॥ ३ ॥ १ घ. ड. षु यत्र प्रो । २ ख. र. ढ. °षु पो । ३ ख. ङ. च. त्र. ड. ढ. यत्सा। ४ क. ग. घ. च. ठ. शेषेणाऽऽज्य । ढ. शेषादाज्य । ५ ङ. ट. ड. णादाज्य । ६ क. ग. द. रोधश । ७ ग. द. पल्याडवे । ८ ख. ग. छ. ज. दनङ्ग । ९ क. ग. 'प्राप्त्युप- पत्तेः । त । ङ. च. ट. ढ. प्राप्त्युप । १० घ. ठ. ड ढ. °रं व्य ।