पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- यस्त द्वेद स वेद सर्व सर्वा दिशो बलिमस्मै हरन्ति । सर्वमरमीत्युरासीत तव्रतं तद्बतम् ।। ४ ।। इति द्वितीयाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ यस्तद्यथोक्तं सर्वात्मकं साम वेद स वेद सर्व स सर्वज्ञो भवतीत्यर्थः । सो दिशः सर्वेदिवस्था अस्मा एवंविदे बलि भोगं हरन्ति प्रापयन्तीत्यर्थः । सर्वमस्मि भवामीत्येवमेतत्सामोपासीत तस्यैतदेव व्रतम् । द्विरुक्तिः सामापास. नसमाप्त्यर्थी ॥४॥ इति द्वितीयाध्यायस्य कविंशः खण्डः ॥ २१ ॥ सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥ ४ ॥ इति द्वितीयाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ ( अथ द्वितीयाध्यायस्य द्वाविंशः खण्डः।) विनर्दि सानो वृणे पशव्यमित्य मेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्च बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥ सामोपासनप्रसङ्गन गानविशेषादिसंपदुद्गातुरुपदिश्यते । फलविशेषसं- बन्धात् । विनदि विशिष्टो नः स्वरविशेष ऋषभजित समोऽस्यास्तीति विनर्दि गानमिति वाक्य शेषः । तच्च साम्रः संबन्धि पशुभ्यो हितं पश. व्यमग्नेरग्निदेवत्यं चोद्गीथ उद्गानम् । तदहमेवं विशिष्टं वृणे प्रार्थय इति कश्चियजमान उद्गाता वा मन्यते । अनिरुक्तोऽमुकसम इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स न गानविशेषः । आनिरुक्त्यात्प्रजापते- निरुतः स्पष्टः । सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः । १ ख... 'मः स्वसं। २ क. ख. ग. घ. ङ. च. ञ. ट. ढ. ण. मिदैव । ३ क. ख. ग. ङ, अ. ण. तिदैव । ४ क, ख, ञ, ण. "मदै ।