पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वाविंशः खण्डः २२ ] छान्दोग्योपनिषत् । १११ मृदु श्लक्ष्णं च गानं वायोर्वायुदेवत्यं तत् । श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपैत चेन्द्रस्यैन्द्रं तद्गानम् । क्रौञ्च क्रौञ्चपक्षिनिनादसमं बृहस्पतेर्हिस्पत्यं तत् । अप- ध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्यैतद्गानम् । तान्सनिवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ।। १ ।। सामोपासनं समाप्तं चेकिमुत्तरग्रन्येनेत्याशङ्कयाऽऽह-सामोति । आदिशब्देन स्वरा. दयो वर्णा गृहान्ते । किमित्युद्गातुर्यथोक्तोपास्तिरुच्यते तत्राऽऽह -फलेति । मृत्युपरि- हारादिः फलविशेषस्तत्संबन्धादेषोपास्तिरनुष्ठेयेत्यर्थः । पशुभ्यो हितस्वमस्य वचनाद्गमयि. तपम् । वाक्यस्थमितिशब्दं व्याचष्टे—इति कश्चिदिति । इयविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः । तस्य प्राज पायवे हेतुमाह- आनिरुक्त्यादिति । नीलपीतादिभिनिश्चित्यावचनादित्यर्थः ॥ १॥ अमृतत्वं देवाय आगायानीत्यागायेत्स्वधां पितृत्य आशां मनुष्यत्यस्तृणोदकं पशुश्यः स्वर्ग लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायनप्रमत्तः स्तुबीत ॥ २॥ अमृतत्वं देवेभ्य आगायानि साधयानि । स्वधां पितृभ्य आगायान्याशा मनुष्येभ्य आशां प्रार्थनां प्रार्थितमित्येतत । तगोदकं पशुभ्यः स्वर्ग लोकं यजमानायान्नमात्मने मह्यमागायानीत्येतानि मनसा चिन्तयन्ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥ २ ॥ ___स्वरविशेषज्ञानपूर्वकमुद्गानकाले ध्यातव्यार्थमाह- अमृतत्वमिति । स्वरोष्मव्यञ्जना- दिभ्य इत्यत्राऽऽदिशब्देन स्थानप्रयत्नादिसंग्रहः ॥ २ ॥ सर्व स्वरा इन्द्रस्याऽऽत्मानः सर्व उष्माणः प्रजाप- रात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरे- पूपालभतेन्द्र शरणं प्रपन्नोऽभूयं स त्वा प्रति वक्ष्य- तीयेन ब्रूयात् ॥३॥ सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्याऽऽत्मानो देहावयवस्था- १ क. ख. प. अ. ण, युदैव । २ क. ग. च. ४. पेतमिन्द । ३ ग. ङ. निनद । ४ ख. ङ. ञ. ठ. ड. स्यरवस । १ ख. ड. स. इ. द. नस्य त । व. °णस्व त। ६ रू. ग. ट. रादि ।