पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशः खण्डः २३] छान्दोग्योपनिषत् । ऊष्माणोऽयस्ता अन्तरप्रवेशिता अनिरस्ता बहिरप्रक्षिप्ता विवृता विवृतप्रय- स्नोपेताः प्रजापरे रात्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शा लेशेन शन- कैरनभिनिहिता अनभिनिक्षिप्ता वक्तव्या मृत्योरात्मानं वालानिव शनकैः परि- हरद्भिर्मृत्योरात्मानं परिहराणीति ॥५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ देवताज्ञानबलेनोगात्रा न प्रमत्तेन भवितव्यं स्वरादीनामन्यथोच्चारणे देवताभेदप्रसङ्गादतः स्वरााचारणे तात्पर्य कर्तव्यमित्युगातारं शिक्षयति-यत इति । प्रयोगकाले चिन्तनी. यमर्थ कथयति-तथेति । यथोक्तरीत्या स्वराणां प्रयोगावस्थायामित्यर्थः । आदैधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयोगावस्थायामिति यावत् । विवृतप्रयत्नोपेताः प्रयो- क्तव्या इति शेषः । तत्रापि ध्यातव्यं दर्शयति-प्रजापतेरिति । अतिद्रुतोच्चारणेन वर्णो वर्णान्तरे या निक्षिप्तो न भवति तथा प्रयुज्यमानत्वमनभिक्षिप्तत्वम् । मृत्योरात्मान- मिति वाक्योपादानं तस्यार्थमाह--बालानिवेति । यथा लोकः शनकै लादिभ्यो बालान्परिहरति तथा मृत्योरात्मानमहं परिहराणीति ध्यात्वा स्पर्शानां प्रयोगः कर्तव्य इत्यर्थः ॥ ५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२॥ (अथ द्वितीयाध्यायस्य त्रयोविंशः खण्डः।) त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्य- न्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मस स्थोऽमृतत्वमेति ॥ १ ॥ ओंकारस्योपासनविध्यर्थ त्रयो धर्मस्कन्धा इत्याद्यारभ्यते । नर्व मन्तव्यं सामावयवतस्यैवोद्गीथादिलक्षणस्योंकारस्योपासनात्फलं प्राप्यत इति । कि तहि यत्सर्वैरपि सामोपासनैः कर्मभिश्वापाप्यं तत्फल. १ . 3. रक्षि' । २ ख. अ. 'पेता वक्तव्याः । ३ क. ददानी' । ४ क. ग. 3, ड. वर्णा। ५ क. ट. 'थाऽभिक्ष । ६ क. तस्य तात्पर्यमा' । ७ ख. अ. नात्तत्फ ।