पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये- ममृतत्वं केवलादोंका रोपासनात्माप्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुप- न्यासः । त्रयस्त्रिसंख्याका धर्मस्य स्कन्धा धर्मस्कन्धा धर्मप्रविभागा इत्यर्थः । के त इत्याह-यज्ञोऽग्निहोत्रादिः । अध्ययन सनियमस्य ऋगादेरभ्यासः । दानं बहिर्वेदि यथाशक्तिद्रव्यसंविभागो भिक्षमाणेभ्यः । इत्येष प्रथमो धर्म- स्कन्धः । गृहस्थसमवेतत्वात्तन्निर्वतकेन गृहस्थेन निर्दिश्यते प्रथम एक इत्यर्थों द्वितीयतृतीय श्रवणान्नाऽऽद्यार्थः । तप एव द्वितीयस्तप इति कृच्छ्रचान्द्रायणादि तद्वांस्तापसः परिबाडा न ब्रह्मसंस्थ आश्रमधर्ममात्रसंस्थो ब्रह्मसंस्थस्य त्वमृत- त्वश्रवणात् । द्वितीयो धर्मस्कन्धः । ब्रह्मचार्याचार्यकुले वस्तुं शीलमस्येत्याचा- यकुलवासी । अत्यन्तं यावज्जीवमात्मानं नियमैराचार्यकुलेऽवसादयन्क्षपर्यन्देह तृतीयो धर्मस्कन्धः । अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते । उपकुवा- णस्य स्वाध्यायग्रहणार्थत्वान्न पुण्यलोकत्वं ब्रह्मचर्येण | सर्व एते त्रयोऽप्याश्र. मिणो यथोक्तधर्मः पुण्यलोका भवन्ति । पुण्यो लोको येषां त इमे पुण्य लोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परिवाइब्रह्मसंस्थो ब्रह्मणि सम्यक्- स्थितः सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकमेति नाऽऽपेक्षिक देवाद्यमृतत्ववत् । पुण्यलोकात्पृथगमृतत्वस्य विभागकरणात् । ___ अधिकृताधिकाराण्यगावबद्धान्युपासनान्युक्तानि । संप्रति स्वतन्त्राधिकारिगोचरमोंकारो- पासनं विधातुमारभते--ओंकारेति । अङ्गावबद्धोपासनाधिकारे यथोक्तस्वतन्त्रोपासनवि- धाने कोऽभिप्रायः श्रुतेरित्याशङ्कयाऽऽह--नैवमिति । न स्वतन्त्रस्य तस्योपासनादित्ये- वकारार्थः । कथं तर्हि मन्तव्यमित्यपेक्षायामाह--किं तहाँति । सनियमस्य प्राङ्मुख- त्वादिनियमसहितस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दानमावृत्तिश्चेति पञ्चविधः । वेद्यां यहीयते तस्य यज्ञाङ्गत्वात्पृथक्फलवत्त्वं नास्तीति मन्वानो विशिनष्टि-वहिर्वेदीति । गृहस्पेन तदात्मनेत्यर्थः । कथं गृहस्थस्य प्राथम्यं ब्रह्मचारिणस्तथात्वादिल्याशङ्कयाऽऽह--एक इत्यर्थ इति । उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह -द्वितीयेति । प्राथम्यमेव प्रथमशब्दस्य नार्थों ब्रह्मचारिप्राथम्यप्रसिद्धिविरोधादित्याह-नाऽऽद्यार्थ इति । कीडगत्र परिवागृह्यते तत्राऽऽह-नेति । कुतोऽत्र ब्रह्मसस्थो न गह्यते तत्राऽऽह-ब्रह्मसंस्थस्यति । १ ङ. इ. 'त्यर्थः सा । २ ख.. यन्नयं तृ' । ३ ध. बा. ठ. ड. ढ. कस्य । ४ख. व. ङ. अ. ठ. ड. ढ. “वमेत्यात्यन्तिकं नाऽऽ° । ५ क. ट. कारगो' । ६ क. ग. ट, अश्वाऽऽक | ७ क. प. ट. तो त्र।