पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ २द्वितीयाध्याये- वातोऽमृतत्वं भवति न प्रणवसेवातस्तकिमिति तस्य स्तुतिरित्याशङ्कयाऽऽह-प्रणवश्चेति । तत्र प्रमाणं दर्शयन्फलितमाह-एतद्धयेवेति । अत्राऽऽहुः केचिच्चतुर्णामाश्रमिणामविशेषेण स्वकर्मानुष्ठानात्पुण्यलोकतेहोक्ता ज्ञानवर्जितानां सर्व एते पुण्य लोका भवन्तीति । नात्र परिवाडवशेषितः । परि- ब्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति । तप एव द्वितीय इत्यत्र तपः- शब्देन परित्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णी यो ब्रह्मसंस्थः प्रणबसे. वकः सोऽमृतत्वमेतीति । चतुर्णामधिकृतत्वाविशेषात् । ब्रह्मसंस्थत्वेऽप्रतिषे- धाच्च । स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामोपपत्तेः । न च यववराहादि- शब्दवब्रह्मसंस्थशब्दः परिव्राजके रूढः । ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते । सर्वेषां च ब्रह्मणि स्थितिरु- पपद्यते । यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिस्तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिवाडेकविषये संकोचे कारणाभावान्निरोद्धम- युक्तम्। - स्वव्याख्यानं वर्जितदोषमुक्त्वा ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र वृत्तिकारीयं व्याख्यानमुत्था. पयति-अत्रेति । ये खल्वाश्रमिणश्चत्वारो ज्ञानवर्जितास्तेषां सर्वेषामप्यविशेषेण स्वाश्रम- विहितधर्मानुष्ठानेन पुण्यलोकभागिता सर्व एते पुण्यलोका भवन्तीत्यत्रोक्ता । न तु पूर्वस्मिन्नन्थे परिबाडनुक्तः सन्नवशेषितोऽस्तीति योजना | ननु पूर्वस्मिन्ग्रन्थे वाचकपदं परिबाजो नोपलभ्यते तथा चासाववशेषितस्तत्राऽऽह-परिवाजकस्यापीति । ज्ञानं यम नियमाश्चोपायभृता इति यावत् । परिबाडपि पूर्वत्राभिहितश्चेद्ब्रह्मसंस्थवाक्यस्य कोऽर्थः स्यादित्याशङ्कयाऽऽह-अत इति । परिव्राजकरयानवशिष्ट वेन चतुर्णामुपदिष्टत्वाविशेषोऽ. तःशब्दार्थः । सामान्यनिर्देशे हेतुमाह-चतुर्णामिति । अप्रतिषेधाच्चेति च्छेदः । नन्वा- श्रमान्तराणां कर्मार्थत्वात्तत्रैव व्यापृतत्वान्न ब्रह्मसंस्थतायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह-स्वकर्मेति । ननु परिव्राजके ब्रह्मसंस्थशब्दो रूढो गवादिशब्दवत् । तन्नासावाश्रमान्तरमास्कन्दति तत्राऽऽह-न चेति । निमित्तमा- दाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादित्याशङ्कयाऽऽह--न हीति । नन्वेष शब्दो नैमित्तिकोऽपि परिव्राजकमात्रमधिकरोति । तत्रैव निमित्तस्य सत्वात्तत्राऽऽह-सर्वे- १ क. ङ. तायाः सा । २ ख. घ ङ. च. अ. ठ. . . "णि स्थि । ३ क. "तिमवोचाम । य°। ४ ख. ङ. ज. ठ. ड. ढ. 'णि स्थि° । ५ ड. ड. 'स्य नि। ६ क. व. ङ. ठ. ट. कोचका ! ७ ग. द. रीयच्या 1 ८ ग. द. तन स चाऽऽश्र।