पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशः खण्डः २३] छान्दोग्योपनिपत्। ११७ षां चेति । ननु पङ्कजादिशब्दा निमित्तमस्तीत्येतावता नेन्दीवरादौ वर्तन्ते किंतु ताम- रसादिमात्रं विषयी कुर्वन्ति । तथा ब्रह्मसंस्थर.ब्दो निमित्तवपि गृहस्थादावनवस्थितः परिव्राजकमेव परं गोचरयेदत आह--यति । ब्रह्मसंस्थशब्दं निरोद्भुमयुक्तमिति संबन्धः । न च पारिवाज्याश्रमधर्ममात्रेणामृतत्वम् । ज्ञानानर्थक्यप्रसङ्गात् । पारि- व्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेन । आश्रमधर्मत्वाविशेषात् । धर्मों वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम् । न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षो नान्येषामिति । ज्ञाना- न्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः । तस्माद्य एव ब्रासंस्थः स्वाश्रमवि. हितकर्मवतां सोऽमृतत्वमेतीति । रूढिपक्षे दोषान्तरमाह--न चेति । धसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्म- स्यामृतत्वसाधनत्वान्न ज्ञानानर्थक्यमित्याशय ऽऽद्यपक्षमनुवदति--पारिवाज्येति । पारिवाज्यधर्मेणैवेति नायं नियमो गहस्थादिधर्माणामप्याश्रमधर्मत्वेन तुल्यत्वात्तद्विशिष्ट- ज्ञानममृतत्वहेतरियपि वक्तं सुकरत्वादित्याह--नाऽऽश्रमेति । द्वितीयं दृषयति- धर्मो वेति । यदि परिव्राजक धर्मो ज्ञानविशिष्टो मुक्तिहेतुरित्युच्यते तदेतदपि मुक्तिहे- तुत्वं सर्वाश्रमधर्माणां ज्ञानविशिष्टानामविशिष्टम् । तथा च न रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञानान्मुक्तिरित्यर्थः । इतश्च परिव्राजकस्यैव मुक्तिभाक्त्वमसिद्धमित्याह-न चति । मा तर्हि कस्यचिदपि मुक्ति दिति तत्राऽऽह--ज्ञानादिति । ब्रह्मसंस्थवाक्याथमुपस- हरति--तस्मादिति । परित्राजकस्यैवामृतत्वमित्यनियमाज्ज्ञानादेव तदिति च नियमा- दित्यर्थः। न । कर्मनिमित्त विद्याप्रत्यययोर्विरोधात । कत्रादिकारकक्रियाफलभेदप्रत्य- यवत्त्वं हि निमित्तमुपादायेदं कुर्विदं मा कार्करिति कर्मविधयः प्रवृत्ताः। तच निमित्तं न शास्त्रकृतम् । सर्वप्राणिष दर्शनात् । सदेकमेवाद्वितीयमात्मवेदं सर्व ब्रह्मैवेदं सर्वमितिशास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविक क्रियाकारकफल- भेदप्रत्ययं कर्मविधिनिमित्तमनुपमद्य न जायते। भेदाभेदप्रत्यययोविरोधात् । न हि तैमिरिकद्विचन्द्रादिभेदप्रन्य यमनुपमद्य तिमिरापगमे चन्द्रायेकत्वप्रत्यय उपजायते । विद्याविद्याप्रत्यययोर्विरोधात्। तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः स यस्योपमर्दितः सदेकमेवाद्वितीयं तत्सत्यं विकारभेदोऽ- १ ग. र. क्त्यपि । २ ख. ग. ह. द. स्मायो ब्र'। ३ घ. च. ठ, ड. मवान्सोऽपृ । ४ क. ट, भैयादि।