पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ आनन्दगिरिकृतटीकासं वलितशांकरभाष्यसभेता-[२द्वितीयाध्याये- नृतमित्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेने स सर्वकर्मभ्यो निवृत्तो निमित्त- निवृत्तेः, स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते, स च परिवाडेवान्यस्यासंभवात् । ब्रह्मसंस्थः समुच्चयानुष्ठायीति वृत्तिकारमतं निराकरोति--न कति । कर्मनिमित्त. प्रत्ययस्य शुद्धब्रह्मात्मतासाक्षात्कारस्य च मिथो विरोधान्न समुच्चयसिद्धिारति । वस्तुसंग्र- हवाक्यं विवृणोति-कत्रदीति । कर्मविधयो निषेधाश्चेति द्रष्टव्यम् । तथाऽपि प्रत्यय स्वाविशेषात्कारकाकारकविधिनिषेधयोर्न विरोधोऽस्तीत्याशङ्कय.ऽऽह-तचेति । प्रत्यय- त्वेऽपि शास्त्रीयाशास्त्रीयतया विद्याविद्याभावेन विरोधोऽस्तीत्यर्थः । सति विरोधे किं स्थाद- त्राऽऽह-स्वाभाविकमिति । विद्यारूपः प्रत्यय इति पूर्वेण संबन्धः । तत्रोक्तमेव हेतुं स्मारयति-भेदति । तत्र लोकप्रसिद्धमुदाहरणमाह-न हीति । भेदाभेदप्रत्यययो. विद्याविद्यात्मनोविरोधेन समुच्चयासंभवात्तदनुष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह-तत्रेति । उक्तरीत्या समुबयायोगे सतीति यावत् । । अन्यो ह्यनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्यानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं कुर्वतो न ब्रह्मसंस्थता । वाचारम्भणमात्र- विकारानताभिसंधिप्रत्ययत्वात् । न चासत्यमित्युपमर्दिते भेदप्रत्यये सत्यमि- दमनेन कर्तव्यं मचेति प्रमाणप्रमेय बुद्धिरुपपद्यते । आकाश इव तलैंमलबुद्धि- विवेकिनः । उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्नागिव भेदप्रत्य- योपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् । अभक्ष्यभक्षणादि. प्रतिषेधवावयानां प्रामाण्यवद्युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् । सर्वोपनिषदां तत्परत्वात् । अन्यस्य गृहस्थादेब्रह्मसंस्थतासंभवमुक्तं साधयति--अन्यो वीति । वाचारम्भणमात्रे विकारेऽनते शरीर दो ब्राह्मणोऽहमित्याद्यभिसंधानरूपो मिथ्याभिनिवेशात्मको यः प्रत्यय- स्तद्वत्त्वादिति हत्यर्थः । ननु ब्रह्मविदोऽपि संस्कारवशाद्वैतसत्यत्वाभिनिवेशपूर्वकं कर्म- प्रवृत्तिसंभवान्न ब्रह्मसंस्थता सुप्रतिपाद्येत्यत आह--न चेति । असत्यमिदमिति विवेकन सत्यत्वामिनिवेशे शिथिलीकृते पुनः सत्यत्वामिनिवेशेन न प्रवृत्तिरुपपद्यते । आभासरूपा तु भे:बुद्धिर्न कर्मप्रवृत्तहेतुरित्यर्थः। अद्वैतज्ञानवतो निमित्तनिवृत्त्या कर्मनिवृत्तिरवश्यंभाविनीत्युक्तम् । विपक्षे दोषमाह-उपमर्दितेऽपीति । एक- १ क. ख. . °न यः सर्व । २ . स्यात्तत्रा । ३ छ. उक्त नीत्या । ४ ख. ङ. अ. ड. इ. संधप्र । ५ ग, ट. मेये बु'। ६ क. ग. च. ट. ढ, "रुद्य' । ७ ग. घ. ङ. च, ठ, ड. ढ. लघु। ८ ठ. ड. णीभूत । ९ ख. अ संस्थान । १८ ख. छ अ पाझेद।