पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशः खण्डः २३] छान्दोग्योपनिषतY S. ११९ त्वप्रत्ययजनकं शास्त्रं न भवत्येव प्रमाणं पूर्वप्रवृत्तभेदप्रत्ययविरोधादिति मतमाशङ्कयाऽऽह- अभक्ष्येति । यथा न कलजं भक्षयेदित्यादि शास्त्रं पूर्वप्रवृत्तकलादिभक्षणप्रत्ययविरो- धेऽपि प्रमाणं र.गादिदोषात्तस्य प्रत्ययस्याप्रमाणत्वात्तथैव भेद प्रत्ययस्य विद्योत्थत्वा प्रामा. ण्यासंभवात्तद्विरोधेऽपद्वतशास्त्रत्य युक्तमेव प्रामाण्यमित्यर्थः । कार्यपरत्वादद्वैते तात्पर्या- भावात्कुतस्तच्छास्त्रस्य प्रामाभित्याशङ्कयाऽऽह-सर्वोपनिषदामिति । उपक्रमोपसं- हारैकरूप्यादिपविधतात्पर्यलिङ्गदर्शनादद्वैते तात्पर्य तासामवसीयते तद्युक्तमद्वैतशास्त्रस्य स्वार्थे प्रामाण्यमित्यर्थः । कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत् । न । अनुपमर्दितभेदप्रत्ययवत्पुरुष- विषये प्रामाण्योपपत्तेः स्वमादिप्रत्यय इव प्राक्प्रबोधात् । विवेकिनामकरणात्क- मविधिप्रामाण्योच्छेद इति चेन्न । काम्यविध्यनुच्छेद दर्शनात् । न हि कामात्मता न प्रशस्तेत्येवंविज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति काम्यकर्मविधय उच्छिद्यन्तेऽनुष्ठीयन्त एव कामिभिरिति । तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विषय उच्छिद्यन्ते ब्रह्मविद्भिरनुष्ठीयन्त एवेति । भेदालम्बनकर्मविधिविरोधान्नाद्वैतशास्त्रं स्वार्थे मानमिति शङ्को-कर्मविधीनामिति । यथा स्वप्नप्रत्ययो गन्धर्वनगरादिप्रत्ययश्च प्राक्तत्त्वज्ञानादर्श पुरुषमधिकृत्य प्रमाणं तथा कर्मविधीनामप्यविदुषि पुरुष प्रामासंभवान्न द्वेतशास्त्रस्य तद्विरोधोऽसीति परिहरति- नानुपमर्दितेति । " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इति स्मृतेस्तत्त्वदार्शना कर्मभ्यः सकाशादपरमे सत्यन्येऽप्यपरंस्यन्ते । तथा च कर्मविधिविरोधतादवस्थ्यमिति शङ्कते-विवेकिनामिति । प्रकृतिपरवशत्वालोकस्य नासो विवेकी प्रेकृतिमनुवर्तते । " प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति" इति स्मृतेः । ततो ब्रह्मविदां नैष्क- र्थेऽपि न कर्मविधीनामप्रामाण्यप्रसक्तिरित्यत्तरमाह-न काम्येति । तदेव प्रपञ्चयात- न हीति । इति नोच्छिद्यन्त इति शेषः । अस्तु प्रस्तुते किमायातं तदाह-तथेति । अनुष्ठीयन्त एवेति तद्विधीनामनुच्छितिरिति वाक्यशेषः । परिव्राजकानां भिक्षाचरणादिवदुत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनाम- मिहोत्रादिकानिवृत्तिरिति चेन्न । प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् । न हि नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट हति शत्रौ द्वेषरहिते- नापि विवेकिनाऽभिचरणं क्रियते । न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये १ ख. 'वेकिम । २ क, ग र प्रवृत्तिमा प्रकृते । श्रीराम शव