पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- बाधितेऽग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् । अद्वैतवादिनोऽवश्यंभाविनी कर्मनिवृत्तिरियुक्तं दृष्टान्तेन विघटयन्नाशङ्कते-परिवा- जकानामिति । अद्वैतधीस्वभावालोचनायां भिक्षाट नादिप्रवृत्तिरप्पघटमानैवेति मन्वानः समाधत्ते-न प्रामाण्येति । समुच्चयस्य प्रामाणिकत्वनिरूपणायां प्रत्ययाभासमूलस्य प्रवृत्त्याभासस्य नोदाहरणस्यम् । अग्निहोत्रादिप्रवृतेरप्याभासत्वे प्रामाणिकसमुच्चयसिद्धान्त- हानिरतो नैतचोद्यमित्यर्थः । एतदेव दृष्टान्तेन स्पष्टयति-न हीति । तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवकिभिरपि तन्न क्रियते । भिक्षाटनादिप्रवृत्त्याभासस्त्वप्रामाणि कोऽग्निहोत्रादिप्रवृत्तेनौदाहरणमिति शेषः । इतश्च नेदमुदाहरणामत्याहन चेति । इहाप्पकरणे प्रत्यवा यमयं प्रवर्तकमिति चे उ । न । भेदप्रत्ययवतोऽधिकृत- स्वात् । भेदप्रत्ययवाननुपमर्दितभेदबुद्धिर्विद्ययाँ यः स कर्मण्यधिकृत इत्यवो- चाम । यो ह्यधिकृतः कर्मणि तस्य तदकरणे प्रत्यवायो न निवृत्ताधिकारस्य गृहस्थस्येव ब्रह्मचारिणो विशेषधर्माननुष्ठाने । एवं तर्हि सर्वः स्वाश्रमस्थ उत्प- नकत्वप्रत्ययः परिवाडिति चेत् । न । स्वस्वामित्वभेदबुद्धयनिवत्तेः । कर्माथे- त्वाच्चेतराश्रमाणाम् । “अथ कर्म कुर्वीय इति श्रुतेः । तस्मात्स्वस्वामित्वा- भावाद्भिक्षुरक एव परिव्राट् । न गृहस्थादिः ।। अग्निहोत्रादावपि प्रवर्तकमस्तीति शङ्कते--इहापीति । अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विकल्प्याऽऽद्यमङ्गी करोति--न भेदेति । कर्मणि भेद- बुद्धिमतोऽधिकृतत्वेऽपि तस्य तदकरणे किं स्यादित्याशङ्कयाऽऽह -यो हीति । द्वितीय दृषयति--न निवृत्तति । विवेकिनो निवृत्ताधिकारस्य प्रत्यवायामाप्या कर्मसु प्रवर्त- काभावात्कर्मभ्यो निवृत्तिरूपं पारिवाज्यं चेदतिप्रसङ्गस्तहीति शङ्कते–एवं तहीति । कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञोपवी. ताद्यन्तरेण गार्हस्थ्यादिभावासंभवात् । न त्यज्यते चेन्न पारिवाज्यप्राप्तिः । साधनसंग्रहस्य साध्यार्थत्वादिति परिहरति--न स्वस्वामित्वेति । इतश्चाऽऽश्रमान्तरेषु न पारिवाज्य- मित्याह--कर्मार्थत्वादिति । जायापुत्रवित्तसंपत्त्यानन्त श्रुतावथशब्दार्थः । गृहस्था दिषु स्वाश्रमस्थेष्वेव पारिवाज्यस्य दुर्वचत्वे फलितमाह--तस्मादिति । विवेकवशाद्यज्ञो. १ क. ग. ट. किनां क° । २ ख. अ. प: । कुत । ३ . द्विरविद्य' । ४ उ. ड. या सर्वक । ५ क. ख. त्र. ड. कम। ६ ख. . “णामीश्वरोऽय'। ७ क. ग. च. ट. स्माच्च स्वस्वा । - ङ, उ. ड. ह. रे । ९ ख. छ. अ. नं स्वं यः ।