पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२द्वितीयाध्याये-- ब्देनोपादानमुचितमिति शक्त्विा प्रत्याह-कस्मादित्यादिना । तपःशब्देन नासौ गृहीत इति शेषः । तस्य च ज्ञानवतोऽवशिष्टत्वं प्रागेवोपदिष्टमित्याह---स एवेति । इतश्च परमहंसपरिवाजको न तप:शब्देन परामृष्ट इत्याह--एकत्वेति । तदेव स्फोरयति- भेदेति । यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्मसंस्थतासामर्थमिति तत्प्रत्याह--एतेनेति । अनिवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थत्वासंभवेनेति यावत् । सामथ्र्य प्रत्युक्तमिति संबन्धः । यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह--अप्रतिषेधश्चेति । एकत्वोपदेशेन भेदप्रत्ययनिरासादनिवृत्तभेदप्रत्ययस्यार्थाद्ब्रह्मसस्थता प्रतिषिद्धेत्यर्थः । पारिव्राज्यमात्रेणामृतत्वे ज्ञानवैध मुक्तं परिहरति-तथेति । यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिहतम् । तस्यैव ब्रह्मसंस्थतासंभवान्नान्यस्येति । यत्पुनरुक्तं रूंढशब्दा निमित्तं नोपाददत इति । तन्न । गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् । गृह- स्थितिपारिवाज्यतक्षणादिनिमित्तोपादाना अपि गृहस्थपरित्राजकावामिवि- शेषे विशिष्टजातिमति च तक्षात रूढा दृश्यन्ते शब्दाः । न यत्र यत्र तानि निमित्तानि तत्र तत्र वर्तन्ते । प्रसिद्धयभावात् । तथेहापि ब्रह्मसंस्थशब्दो निवृ. तसर्वकर्मतत्साधनपरिबाडेकविषयेऽत्याश्रमिणि परमहंसाये वृत्त इह भवितु. महति । मुख्यामतत्वफलश्रवणात् । अतश्चेदमेव वेदोक्तं पारिवाज्यम् । न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति मुण्डोऽपरिग्रहोऽसङ्ग इति च । चोद्यान्तरमनद्याक्त परिहारं स्मारयति-~-यत्पनरुक्तमिति । तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति । चोद्यान्तरमनूद्य दूषयति--यत्पुनरित्यादिना । आदि- पदेन पङ्कजादिशब्दो गृह्यते । उक्तं प्रपञ्चयति-गृहस्थितीति । इहापीति प्रकृतवाक्यो. पादानम् । प्रकृते परमहंसे परिवाज के ब्रह्मसंस्थपदमित्यत्र हेतुगाह--मुख्यति । इतश्च पारमहंस्यमेव श्रौतमित्याह-अतश्चेति । एवकारार्थं कथयति-न यज्ञोपवीतेति । इतिशब्दः संन्यासप्रकरणे तथाविवश्रुत्यभावप्रदर्शनार्थः । १. ग. ङ. ठ. ड. ण. क्तं वरा' । २ ग. ड.. ठ. 'ति परि' । ३ ग. ब. ङ. च. ट. उ. तमेतत् । त । ४ ख. च. अ. ट. ड. द. रूढिश । ५ ख. ड. स. ढ. 'तिप्रव्रज्यात°। ६ ठ. ड. काश्र । ७ क. ग. ट. श्रमवि' । ८ क. ग. ब, च. ट. ट. च गृहस्थ इति परिव्राजक इति च त । १ घ. तिच निस' । उ. ति च रू' । १, ख. र.व निमि । ११ ड. ड. ढ. व व । १२ ख. अ. षयोत्या' । ग. च. ङ. ढ. °षयेऽन्त्या । १३ ख.अ. ज. ठ, "ख्ये प्रवृ' । १४ क. थ. . च. ट. द. हवान्मण्डोऽ । १५ ख. प. उ. ति । श्रु। १६ क. शब्दा गृह्यन्ते । उ ।