पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२३ त्रयोविंशः खण्डः २३ ] छान्दोग्योपनिषत् । भौगोपनियता - श्रुतिरत्याश्रमिभ्यः परमं पवित्रमित्यादि च वेताश्वतरीय । निस्तुतिनिर्नम- स्कार इत्यादिस्मृतिभ्यश्च । ' तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गः' इत्यादिरमृतिभ्यश्च । ब्रह्मसंस्थशब्दस्य परमहंस विषयत्वे श्रुत्यन्तरं संवादयति-श्रुतिरिति । अत्याश्रमिभ्यः पूर्वाश्रमत्रयमतीत्य सर्वकर्म त्यक्का स्थितेभ्यः परमहंसपरिव्राजकेभ्य इति यावत् । परमं पवित्रं निरतिशयपरिशुद्धिकारणं परमपुरुषार्थसाधनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिवाज्यं सिध्यतीति शेषः । अनाशिषमनारम्भमित्यादिवाक्यसंग्रहार्थमादि. पदम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्मकारणत्वराहित्यं तस्मादित्युक्तम् । अलिङ्गो धर्मध्वजित्वरहितः । धर्मज्ञो यथावद्धर्मानुष्टाता । अधर्मज्ञ इति वा प.ठः । धर्म- विचारनिष्टारहितस्तत्रासारत्व प्रत्ययवानित्यर्थः । अलिङ्ग इत्युक्तेऽनाश्रमित्वमाशङ्कयाऽऽह- अव्यक्तेति । न व्यक्तं दम्भेन गृहीतं लिङ्गमाश्रमिलमस्यास्तीत्यव्यक्तलिङ्गः । किंवद- म्भेन श्रुतिस्मत्युक्तप्रकारेण तदस्यास्तीत्यर्थः । आदिपदं त्यज धर्ममधर्म चेत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।। यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते । क्रियाकारकफलभेदबुद्धेः सत्यत्वा- भ्युपगमात् । तन्मपा । यच्च वोद्धैः शून्यताभ्यु गमादकर्तृत्वमभ्युपगम्यते । तद- प्यसत् । तदभ्युपगन्तुः सत्वाभ्युपगमात् । यच्चाहरलसतयाऽकर्तृत्वाभ्युपगमः सोऽप्यसत्कारकबुद्धेरनिवर्तितत्वात्पमाणेन । तस्माद्वेदान्तप्रमाणजनितैकत्वप्रत्य- यवत एंव कर्मनिवृत्तिलक्षणं पारिवाज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिवाज्यमर्थसिद्धम् । ननु कर्मनिवृत्तिमपदिशता त्वया सांख्यमतमेवाऽऽश्रितं तेनापि शरीरादिव्यापारोपरम• द्वारा ध्याननिष्टतायाः स्वीकृतत्वात्तत्राऽऽह-यत्त्विाति । न हि तन्मते कूटस्थात्मधीबलेन नैष्कर्थ युक्तम् । क्रियाकारकादिबुद्धेरविवेकस्य च सत्यत्वेन ज्ञानमात्रापनोद्यत्वायोगात् । न च सर्वव्यापारोपरगसंभवो मनोबुद्ध यादीनां तच्छीलत्वात् । न हि कश्चित्क्षणमपीत्यादि- स्मतेः । अतः सांख्यवचो मिथ्यैवेत्यर्थः । ननु बौद्धेनापि नराम्यमिच्छता नैष्कर्म्यमिष्टं तथा च कर्मत्यागमुपदिशता स्वयाऽपि तन्मतमेवानुमोदितं नेत्याह—यच्चेति । १ क. ग. च. ठ. ये न स्तु' । २ क. ग. च. ट. तिनं नम । ३ घ. ठ. सत्यत्वाभ्यु। ४ ख. च. सन । कार । यद्यप्ययमेव ाठः समीचीन इत्यापाततः प्रतिभाति तथाऽपि यच्चा रिति नपुंसक यच्छब्दप्रयोगान संगच्छते । उपरिस्थापितलापनिका वित्थं सोऽपि प्रमाणेनाविद्यमान कारक ढेरनिवर्तितत्वादेवातस्तव सादति । असन्नितिपाठे यदित्यव्ययं वा शेयम् । ५ क. ग. ट. एतत्वम । ६ ख घ ङ. ञ. ड. 'णं ब्रह्मसंस्थत्वं पारिवाज्यं चेति । ७ क. 'निष्ठायाः ।