पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता-[२ द्वितीयाध्याये- " एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः” इति श्रुतेः । तस्म द्युक्तमोकारस्य सर्वात्मत्वमित्यर्थः । ॐकार सर्वात्मकं ब्रह्मरूपमुपासीतेतिविधिसमाप्त्यर्थमितिशब्दः । किमित्योंकारस्य लोकादिद्वारा निष्पत्तिरुच्यते तत्राऽऽह-लोकादीति । स्तुतिश्चोपास्त्यर्था । यस्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्धमोंकारोपासनममतत्वफलमिति वक्तु:- मितिशब्दः ॥ २३ ॥ इति द्वितीयाध्यायस्य त्रयोविज्ञः खण्डः ।। २३ ॥ ( अथ द्वितीयाध्यायस्य चतु:शः खण्डः।) सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवत्याकारं परमात्मप्रतीकत्वादमृतत्व- हेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्याङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदि. क्षन्नाह- ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवन५ रुद्राणां माध्यंदिन सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ ३ ॥ ब्रह्मवादिनो वदन्ति यत्प्रातःसवनं प्रसिद्धं तदसूनाम् । तैश्च प्रातःसवनसबै दोऽयं लोको वशीकृतः सबनेशानः । तथा रुद्राध्यंदिनसवनेशानरन्तरिक्ष- लोकः । आदित्यैश्च विश्वेदेवश्च तृतीयसबनेशानस्तृतीयो लोको वशीकृतः । इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥ १॥ प्रासङ्गिक हित्वा प्रकृतमनुसंधत्ते-सामेति । पञ्चविधं सप्तविधं च यज्ञोङ्गीभूतं साम तस्योपासनवचनादोंकारस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्य ब्रह्मप्रती. कत्वात्कैवल्यहेतुत्वेन तमेव महीकृत्य प्रस्तुतयज्ञाङ्गभूतसामादिविज्ञानविधानार्थमुत्तरवा. क्यमित्यर्थः । सामहोममन्त्रोनं सामादिज्ञानविधिसया, तदपरिज्ञाने दोषमाह- ब्रह्मेत्यादिना । तेषां प्रातःसबनेशानवेऽपि यजमानस्य का हानिरियाशङ्कयाऽऽह- तैश्चेति । यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण संबन्धः । तृतीयो लोको धुलोकाख्यः । अस्तु तत्तद्देवानां तत्त- १ ख. छ. ण. 'मस्वरू° । २ अ. 'इति । ३ क. ग. घ. ङ. च. ट, ठ. ड. द. वाया म° ! ४ क. ग. छ. 'बन्धोऽय । ५ ञ. ज्ञागभू । ६ ञ. त्यानसा ।