पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः खण्डः २४] छान्दोग्योपनिषत् । १२७ लोकवशीकारस्तथाऽपि यजमानस्य लोकित्वे किमायातमित्याशङ्कयाऽऽह-इति राजमा- नस्येति ॥ १॥ क तर्हि यजमानस्य लोक इति स यस्तं न विद्या- त्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २॥ अतः क तर्हि यजमानस्य लोको यदर्थं यजते। न कचिल्लोकोऽस्तीत्यभि- प्रायः “लोकाय वै यजते यो यजते" इति श्रुतेः । लोकाभावे च स यो यजमानस्तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यान्न विजानी- यात्सोऽज्ञः कथं कुयोद्यज्ञं न कथंचन तस्य कर्तत्वमुपपद्यत इत्यर्थः। सामादि- विज्ञानग्तुतिपरत्वान्नाविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते । स्तुतये च सामादिविज्ञानस्याविद्वत्कर्तृत्वप्रतिषेधाय चेति हि भिद्येत वाक्यम् । आये चौपस्त्ये काण्डेऽविदुपोऽपि कर्मास्तीति हेतुमबोचाम। अथैतद्वक्ष्यमाणं सामा- ग्रुपायं विद्वान्कुर्यात् ॥ २ ॥ परिशिष्टलोकाभावोऽत.शब्दार्थः । तहि देहपातादूर्ध्वमित्येतत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भविष्यतीत्याशङ्कयाऽऽह-लोकायेति । लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्यार्थ यज्ञाद्यनुष्ठानमित्याशङ्कयाऽऽह-लोकाभावे चेति । अज्ञो यज्ञ स्वर्गादिसाधनीभूतं कथं कुर्यादित्याक्षेपादविद्वत्कर्मानुष्ठाननिन्दापरं वाक्यमित्या- शङ्कयाऽऽह-सामादीति । अथैतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह- स्तुतये चेति । इतश्चाविद्वत्कर्तत्वं निषेद्धमशक्यमित्याह--आये चेति । मटचीहते- वित्यादौ विदुषः संनिधाने तदनज्ञामन्तरेणाविदपः कर्म कर्तुमयुक्तम् । प्रत्यवायप्रसङ्गात् । तदसंनिधौ तु तेनापि क्रि माणं कर्म न दुष्यतीत्युपपादितमित्यर्थः । अथशब्दो हेस्वर्थः । सामाधविज्ञाने यस्माद्यज्ञाद्यकरणमेव प्राप्त तस्मादित्यर्थः ॥ २ ॥ पुरा मातर नुवाकस्योपाकरणाजयनेन गार्हपत्य- स्योदङमुख उपविश्य स वासव सामाभिमा- यति ॥ ३ ॥ किं तवैद्यमित्याह--पुरा पूर्व प्रातरनुवाकस्य शस्त्रस्य प्रारम्भाजघ- १ ख.अ. ण. 'स्म लौकिकत्वे । २ ङ. श्रुतिः । लो । ३ ख. घ. ञ. विदुषः कर्तृ । ४ क. ग. च. ट. . ति मि। ५ घ. ङ. ड. 'स्त्ये च का। ६ क. ग. ट. थे। ७ क. ग. द. निरोद्ध