पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ आनन्दागारकृतटीकासंवलितशांकरभाष्यसमेता-२द्वितीयाध्याये-- नेन गार्हपत्यस्य पश्चादुदङ्मुखः सन्नपविश्य स वासर्व वसुंदैवत्यं सामाभि- गायति ॥३॥ ___ ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति--किं तदित्यादिना। अप्रगीतमृगजातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकं तस्येति यावत् । उपाकरणादित्यस्यार्थमाह-- प्रारम्भादिति । जघनेनेत्येतद्व्याचष्टे-पश्चादिति । स गार्हपत्यस्य पृष्ठत उदग्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानवि- षयः ॥३॥ लो३कद्वारमपावाणू ३३ पश्येम त्वा वय५ रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥४॥ लोकद्वारमस्य पृथिवीलोकस्य प्राप्तये द्वारमपावृणु हेऽग्ने तेन द्वारेण पश्येम स्वों त्वां राज्यायति ॥ ४ ॥ राज्याय त्वदर्शनेन त्वदनुज्ञया पृथिवीप्रयुक्तभोगायेयर्थः ॥ ४ ॥ अथ जुहोति नमोऽनये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्देष वै यजमानस्य लोक एताऽस्मि ॥ १ ॥ अथानन्तरं जुहोत्यनेन मन्त्रेण नमोऽग्नये प्रीभूतास्तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते पृथिवीलोकनिवासायेत्यर्थः । लोकं मे मह्यं यज- मानाय विन्द लभस्व । एप चै मम यजमानस्य लोक एता गन्ताऽस्मि ॥५॥ ___ पृथिव्यां क्षियति वसतीति पृथिवीक्षित्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव कि स्यादित्याशङ्कयाऽऽह-एप च मम यजमानस्यति ।। ५ ॥ अत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परि- घमित्युक्त्वोतिष्ठति तस्मै वसवः प्रातःसवन संप्र. यच्छन्ति ॥ ६॥ अत्रास्मिल्लोके यजमानोऽहमायुषः परस्तावं मृतः सन्नित्यर्थः । स्वाहेति जुहोति । अपज पनय परिघं लोकद्वारार्गलमित्येवं मन्त्रमुत्त्वो. १ ङ. ठ. ड. "सुदेव । २ क. ग. ठ. वाक स्तस्ये । ३ ख. छ, ञ, ण. 'त्युपू। ४ .. 8. ड. ह. “म त्वां। ५ क ते लोकनिवासायं पृ। ६ क. °शिदग्निस्तस्मै ।