पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः खण्डः १]
छान्दोग्योपनिषत् ।

प्रथमः खण्डः १] छान्दोग्योपनिषत् । स्याद्वैतात्मज्ञानस्येति शेषः । तस्य वाधकाभावेन तत्परिहारार्थ सहकार्यपेक्षा नास्तीत्यर्थः । बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते-कर्मेति । तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिः जनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तत्वादिकमाकाङ्क्षन्नक द्यात्मज्ञानस्य वाधको. भवतीत्यर्थः । कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽयं प्रत्याह-नेत्या. दिना | कर्नाद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिध्याज्ञानं तद्वतस्तेन मिध्याज्ञानेन जनि- तकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्भ विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् " इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः । द्वितीय शङ्कते-अधिगतति । अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययन चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि काङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादि- त्यर्थः । न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतप्र- सिद्धं तत्राध्ययन विधिवशेन नाऽऽत्मज्ञानस्य कभत्रिविसंबन्धः संभवतीति परिहरति-नेति। किंच ममेदं कर्मेति कर्मण्यैश्वयं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्नाद्याकारविज्ञा. नस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषेयरा- गाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह--कर्मा- धिकृतेति । अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति-तस्मादिति । भज्ञस्य कर्मविधिर्न त्वात्मज्ञस्थेत्यत्र श्रुति संवादयति-अत एवेति । एते त्रयोऽप्या- श्रमिणः कर्माधिकृता इति यावत् । यथा ब्रह्मचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथविक्रयेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम्- ब्रह्मसंस्थ इति । - तत्रैतस्मिन्नद्वैतविद्याप्रकरणेऽभ्युदयसाधनान्युपासनान्युच्यन्ते । कैवल्यसं. निकृष्टफलानि चाद्वैतादीपद्विकृतब्रह्मविषयाणि “ मनोमयः प्राणशरीरः" इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसंवन्धीनि । रहस्यसामान्यान्मनो- वृत्तिसामान्याच्च यथाऽद्वैतज्ञानं मनोवृत्तिमात्रं तथाऽन्यान्यप्युपासनानि मनो- वृत्तिरूपाणीत्यस्ति हि सामान्यम् । कस्ताद्वैतज्ञानस्योपासनानां च विशेषः । उच्यते । स्वाभाविकस्याऽऽत्मन्यक्रियेऽध्यारोपितस्य कर्नादिकारकक्रियाफल- भेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् । रज्ज्वादाविव सावध्यारोपलक्षण. १ क. 'तावबो । २ क. 'षये रा । ३ ख. घ. च. "था ह्यदै । ४ क. न्यान्युपा ! ५ ख. 'न्यविकि' ।