पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत्। १३१ संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति च्छान्दोग्योपनिषद्ब्राह्मणे द्वितीयोऽध्यायः ॥ २ ॥ एप ह वै यजमान एवंवित् यथोक्तस्य सामादेविद्वान्यज्ञस्य मात्रां यज्ञया- थात्म्यं वेद यथोक्तम् । य एवं वेद य एवं वेदेति द्विरुक्तिरध्यायपरिसमा. प्त्यर्था ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विशः खण्डः ॥ २४ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्य- श्रीमच्छंकरभगवत्पादकृतौ छान्दोग्योपनिषद्विवरणे द्वितीयोऽध्यायः ॥ २॥ सामादिविज्ञान'फलं कथयति--एष हेति । य एवं वेदेत्यस्य व्याख्या--यथोक्त. स्येति । यथोक्तं सामादीत्येतत् । एवमित्युक्त प्रकारोक्तिः । तस्य यज्ञयाथात्म्यविदस्तद- नुष्ठानद्वारा तत्फलं संभवतीत्यर्थः ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विशः खण्डः ॥ २४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्द पूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्योपनिषद्भायटी कायां द्वितीयोऽध्यायः ॥ २ ॥ (अथ तृतीयाध्यायस्य प्रथमः खण्डः ।) असौ वा आदित्य इत्याद्यध्यायारम्भे संवन्धः । अतीतानन्तराध्यायान्त उक्तं यज्ञस्य मात्रां वेदेति यज्ञविपयाणि च सामहोम मन्त्रोत्थानानि विशिष्टफल. प्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि । सर्वयज्ञानां च कार्यनित्तिरूपः सविता महत्या श्रिया दीप्यते । स एष सर्वप्राणिकर्मफलभूतः ख. . °वं वेद । य । ढ. 'वं य । २ घ. उ. दे। ३ . . द. "दिशा ४ क. ग, छ. ठ, ण. 'पपिदित्य । ५ ख. ञ, ण, 'योक्तमा ।