पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-३ तृतीयाध्याय- प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूत सवितृविषयमुपा- सनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः- ॐ । असो वा आदित्यो देवमधु तस्य योरेव तिरश्वीनवशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥ असौ वा आदित्यो देवमश्चित्यादि । देवानां मोदनान्मध्विव मध्वसावा- दित्यः । वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य । कथं मधुत्वमित्याह--तस्य मधुनो धारेवं भ्रामरस्येव मधुनस्तिरश्चीनवासी वंशश्चेति तिरश्चीनवंशः । तिर्यगतेव हि द्यौर्लक्ष्यते । अन्तरिक्षं च मध्वपूपो धुवंशे लग्नः सल्लँम्बत इवातो मध्वपूपसामान्यादन्तरिक्षं मध्व पूपो मधुनः सवि- तुराश्रयींच । मरीचयो रश्मयो रश्मिस्था आपो भौमाः सवित्राकृष्टाः । एता वा आपः स्वराजो यन्मरीचय इति हि विज्ञायन्ते । ता अन्तरिक्षमध्वपूपस्थ. २३म्यन्तर्गतल्वाद्भुमरवीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्रा मध्वपूपनाड्यन्तगेता हि भ्रमरपुत्राः॥१॥ कर्माङ्गबद्धं विज्ञानं फरिसमाष्य कर्मफलस्याऽऽदित्यस्य स्वतन्त्रोपास्तिविध्यर्थमध्या- यान्तस्मारममाणः संबन्धं प्रतिजानीते-असाविति । पूर्वोत्तरग्रन्थयोः संबन्ध प्रतिझात प्रकटयितुं वृत्तं कीर्तयति-अतीतेति । विशिष्टफलं वृथिव्यादिलोकत्रयम् । समनन्तरसं- दर्भस्य तात्पर्य वक्तुं पातनिकां करोति-सर्वेति । तस्य प्रेक्षितत्वं सूचयति-- महत्योति । कथं पुनरादित्यस्य सर्वप्राणिकर्मफलभृतत्वमित्याशङ्कय सर्वरुपजीव्यत्वो- पलम्भादित्याह--स एष इति । पालनिकां कृत्वोत्त(ग्रन्थमुत्थापयति---अत इति । आदित्यस्य कर्मफल कादिति यावत् । तदुपदेशे हेवन्तरमाह- सर्वपुरुषार्थेभ्यः इति । श्रेष्ठतमं फलं क्रमेण मुक्तिलक्षणमस्यास्तीति. तथोक्तम् । आदित्ये कर्म- फलशब्दप्रवृत्तिनिमित्तमुक्तं व्यक्तीकर्तुमाह-वस्वादीनां चेति । चकारों विद्व. संग्रहार्थः । वक्ष्यत्यादित्यस्येति संबन्धः । तस्य सर्वेषां यज्ञानां फलरूपत्वादिति हेतु: । -१ व. च. ढ. 'त्यक्षः स' । २ क. ज्ञस्य ·य || ३ क. ट. तमं फ। ४ क. घ. द. व. ग. व भ्रम | ५.ख. ज. प. 'पो मधुवं । ६ व. वंशसंल' । ७ च, 'शे संल° । ८ कक. म. घ. ङ. ट. ठ. ढ. त्वात् । म । ९ ड.. च. ठ. ड.. ढ. यते । ताः । १० क. ग.. ट.. 3प्सितः । ११. स. अ. ण हि ।।