पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- मन्त्राणां पृथक्कृतत्वादृग्वेदः पुष्पमित्युग्वेदशब्देन ब्राह्मणसमुदायस्य वक्तव्यत्वात्कथंचिदृग्वे. दविहिते कर्मणि तच्छब्देन लक्षिते पुष्पदृष्टयाऽध्यासेऽपि कुतस्ततो मधुनिष्पत्तिरित्याश. इंयाऽऽह-ततो हीति । तदेवोपपादयति-मधुकरैरिति । लोके तावदपः पुष्पाश्रयाः समादाय मधुकरैर्मधु निर्त्यते तथापि मधुकरस्थानीयमन्त्रैस्तद्वेदविहितात्पुष्पस्थानी- यात्कर्मणः सकाशादपो गृहीत्वा मधु निष्पाद्यते । तस्मात्कर्मणः स्वफलभूतमधुनिष्पत्तेरुप- पत्तेस्तस्मिन्पुष्पदृष्टिरित्यर्थः । ता अमृता आप इति वाक्यं प्रश्नपूर्वकं व्याचष्टे-कास्ता इत्यादिना । कर्मणि प्रयुक्तत्वमभिनयति-अग्नाविति । अग्निपाकोभिनित्तत्वमपूर्वात्मत्वं परम्परया मुक्यर्थत्वममृतार्थत्वम् । यद्वा रोहितरूपामृतनिर्वर्तकत्वं तदर्थवत्त्वम् । उत्कृष्टफ- लवत्त्वमत्यन्तरसवत्त्वम् । ता वा एता इत्यादि व्याचष्टे-तद्रसानिति । यथा हि पुष्पेभ्यो भ्रमरा रसानाददानास्तान्यभितपन्ति तथैते मन्त्रास्तस्मि-कर्मणि स्थितानम्मया-रसानादाय मधु निर्वर्तयन्तो यथोक्तं कर्माभिमतं समालोचयन्ति स्मेत्यर्थः ॥ २ ॥ एतमग्वेदमायतपश्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ ३ ॥ एतमृग्वेदमृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्नभिसापं कृतवत्य इवैता ऋचः कर्मणि प्रयुक्ताः । ऋग्मिर्हि मन्त्रैः शस्त्र द्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिवर्तकं रसं मुञ्चतीत्युपपद्यते पुप्पाणीव भ्रमरैरोंचूष्यमाणानि । तदेतदाह- तस्य ग्वेदस्वाभितमस्य । कोऽसौ रसो य मधुकराभितापनिःसृत इत्युच्यते। यशो पिश्रुतत्वं तेजो देहगता दीप्तिरिन्द्रियं सामोपतरिन्द्रिय रवैकल्यं वीर्य सामय बलमित्यर्थः । अन्नाद्यमन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात्तदन्नाद्यमेष रसोऽजायत यानादिलक्षणाकर्मणः ॥ ३ ॥ । कथं पुनर्माणां भ्रमरस्थानीयानां पुष्पस्थानीयमृग्वेदविहितं कर्माभितप्तवतां फलव. चमित्याशङ्कयाऽऽह-एता ऋच इति । तासां कर्मणि प्रयुक्तयेऽपि किमायातं तदाह-ऋग्भिरिति । अभितप्तस्य रसोऽजायतेति संबन्धः । तं प्रश्नपूर्वकं विशदयति- कोऽसाविति ।। ३॥ १ क. ग. छ. ट. कथमृग्वे । २ क. ग. ट. कादिभिनित ' । ३ क. ग. ढ. त्वम् ४ क. ग. ट. ठ. पं च कृ । ५ ड.. उ. ह. ण. सकृय । ६ घ. पनिवृत्त इ° । ७ ख. अ. 'पभुज्य । ८ ख. अ. हितक । ९ ख. छ. अ. ण, तप्तानां फ।