पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । तविक्षरत्तदादित्यमतितोऽश्रयत्तद्वा एतद्यदेतदादि- त्यस्य रोहित रूपम् ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ यशआद्यन्नाद्यपर्यन्तं तद्वयक्षरद्विशेषेणाक्षरदगमत् । गत्वा च तदादित्यमभितः पार्श्वतः पूर्वभागं सवितुरश्रयदाश्रितवदित्यर्थः । अमुष्मिन्नादित्ये संचितं कर्म- फलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः । तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोस्तद्वा एतत् । किं तद्यदेतदादित्यस्योद्यतो दृश्यत रोहितं रूपम् ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ तच्छब्दार्थमाह---यशअदीति । अथानुष्ठितकर्मजनितं फलं कथमादिल्यमाश्रयती- स्याशङ्कयाऽऽह -अमुष्मिन्निति । दृष्टान्ते भोक्ष्यामहे ब्रीह्यादिजनितं फलमित्यभिप्रायेण श्री.ह्यादिप्राप्त्यर्थमिति शेषः । किं तत्कर्मफलं यदादित्यमाश्रित्य तिष्ठतीत्याशङ्कयाऽऽह- तत्प्रत्यक्षमिति । कर्मफले प्रत्यक्षे तत्साधने कर्मणि कर्मिणां श्रद्धासिद्धयर्थमिति यावत् । तदेव फलं प्रश्नपूर्वकं विशदयति--किमित्यादिना ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ तृतीयाध्यायस्य वितीयः खण्डः ।) अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूशष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ अथ येऽस्य दक्षिणा रश्मय इत्यादि समानम् । यजूंष्येव मधुकृतो यजुर्वे- दविहिते कर्मणि प्रयुक्तानि । पूर्ववन्मधुकृत इव । यजुर्वेदविहितं कर्म पुष्पस्था- नीयं पुष्पमित्युच्यते । ता एव सोमाया अमता आषः ॥१॥ मध्वन्तरं दर्शयति---अथेति । वक्तव्यविशेष कथयति-यजूंषीति । कथं तेषां ख. घ. ङ. अ. द. पूर्व भा" । २ ख. घ. ञः ठ. ण. °धु वयं भो । ३ ब. ड. च. म. ट. ड. त्येव हि ४ के.ग. ड., ट. डद.।