पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- यदा प्रसिद्धयोरितिहासपुराणयोरुपादानं तदाऽपि न दूषणमित्याह-तयोश्चेति । अश्व- मेधकर्मणि जामितापरिहारथ पारिप्लवो नानाविधोपाख्यानसमुदायो यत्र तत्पारिप्लबमाचक्षीते- तिविधिवशात्प्रयुज्यते । तासु रात्रिषु तस्यैव कर्मणोऽङ्गत्वेन मनुवैवस्वतो राजे.येवं प्रकारयो. विनियोगस्य पूर्वतन्त्रे पारिप्लवार्थाधिकरणेनैव सिद्धत्वात्तत्तत्संबन्धि कर्म पुष्पमित्यर्थः । अस्यापि मधुनः शास्त्रप्रत्यक्षतामाह-मवेतदिति ॥ १॥ २ ॥ ३ ॥ इति तृतीयाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ (अथ तृतीयाध्यायस्य पञ्चमः खण्डः।) अथ येऽस्यो/ रश्मयस्ता एवास्यो; मधु- नाड्यो गुह्या एवाऽऽदेशा मधुलतो ब्रह्मैव पुष्पं ‘ता अमृता आपः ॥ १॥ ते वा एते गुह्या आदेशा एतद्ब्रह्मान्यतपश्स्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राय रसोऽजा. यतः ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्दा एतद्यदेतदादि त्यस्य मध्ये क्षोभत इव ॥ ३ ॥ अथ येऽस्यावा रश्मय इत्यादि पूर्ववत । गुह्या गोप्या रहस्या एवाऽऽदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतो ब्रह्मव शब्दा- धिकारात्प्रणवाख्यं पुष्पम् । समानमन्यत् । मध्वेतदादित्यस्य मध्ये क्षोभत इव समाहितदृष्टेदेश्यते संचलतीव ॥ १ ॥ २॥३॥ , पञ्चमं मधु दर्शयति-अथेति । लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः । ब्रह्मशब्दार्थमाह-शब्दाधिकारादिति । ऋगादिशब्दानां प्रकृतत्वा- दित्यर्थः । अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह-मश्वेतदिति । समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥ १ ॥ २ ॥ ३ ॥ ते वा एते रसाना रसा वेदा हि रसास्तेषा- १ क. ग, ट. मेधे क । २ क. ट. 'त-सं° । ३ क. ग. घ, ङ, च. ट, ढ, ज.