पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ पष्टः खण्डः ६ छान्दोग्योपनिषत् । मेते रसास्तानि वा एतान्यभूतानाममृतानि वेदा त्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥ इति तृतीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः । केषां रसाना. मित्याह-वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसास्तेषां रसानां कर्मभा- वमापन्नानामप्येते रोहितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथाऽमृता- नाममृतानि । वेदा ह्यमृता नित्यत्वात्तेषामेतानि रोहितादीनि रूपाण्यमतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा । यस्यैवं विशिष्टान्यमतानि फलमिति ॥४॥ इति तृतीयाध्यायस्य पश्चमः खण्डः ॥ ५॥ पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्धयर्थं स्तुति प्रकुरुते-ते वा एत इति । तस्मात्तेषामिति संबन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् । या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह- रसानामिति । कर्मस्तुतिमभिनयति-यस्यैवमिति । रसानां रसा अमृतानाममता- नीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥ ४ ॥ यस्य पञ्चमः खण्डः ॥५ (अथ तृतीयाध्यायस्य षष्ठः खण्डः।) तयत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ तत्तत्र यत्पथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्त्य. मिना मुखेनाग्निना प्रधानभूतेनाग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः । अन्नायं रसोऽजायतेतिवचनात्कवल ग्राहमश्नन्तीति प्राप्तं तत्प्रतिषिध्यते न वै देवा अश्नन्ति न पिबन्तीति । कथं तद्युपजीवन्तीत्युच्यते-एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्टोपलभ्य सर्वकरणैरनुभूय तृप्यन्ति । दृशेः सर्वकरणद्वारोपल. १ ख. अ. ते तथो । २ ख. ब. निष्पादत्वा । ३ ख. ञ, ण. °षां ध्ये° 1४ ग. ञ. ड. ण. ग्रासम । एच.क्तलक्षणम । ६ क. द. °हितरू ।