पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[ ३तृतीयायाये- ध्यर्थत्वात । नन रोहितं रूपं दृष्ट्रत्युक्तं कथमन्येन्द्रियविषयत्वं रूपस्योति । न । यशआदीनां श्रोत्रादिगम्यत्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुषम् । इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामथ्र्यम् । वीर्य बलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति । रसो हाव- मात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे । देवा दृष्ट्वा तृप्यन्तीत्येतत्सर्व स्वकरणे- रनुभूय तृप्यन्तीत्यर्थः । आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषर. हिताश्च ॥ १॥ अमृतानि ध्येयान्युक्त्वा तदुपजीविनो देवत गणाननुचिन्तनीयानुपदिशति--तत्तत्रति। कवलग्राहं कवलं गृहीत्वा यथा लोकोऽनाति तद्वदित्येतत् । नन्वशनपानाभाये न युक्तमु पजीवनवचनमित्याशङ्कय परिहरति-कथमित्यादिना । चक्षुषेति वक्तव्ये कथं सर्व- करणैरित्यधिकमुच्यते तत्राऽऽह-दृशरिति । चक्षुषेत्र रूपग्रहणमिति नियममाश्रित्य शङ्कते--नन्विति । कर्मफलभूतस्य रसस्य लेहितामृतात्मकस्य नास्ति चक्षुर्मात्रग्र ह्य- त्वमिति परिहरति--नेत्यादिना । किमेतावता रसस्याऽऽयातं तदाह-रसो हीति । इति तस्यापि श्रोत्रादिग्राह्यतेति शेषः । एतदेवेत्यादिव क्यमुपसंहरति-देवा इति । किं तेषां स्वतत्राणां तृप्तित्याह-आदित्यति । वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन संभाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥ १ ॥ त एतदेव रूपमभिसंरिशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ किं ते निरुद्यमा अमृतमुपजीवन्ति । न । कथं तर्हि, एतदेव रूपमभिलक्ष्या. धुना भोगावसरो नास्माकमिति बुद्ध्वाऽभिसंविशन्त्युदासते । यदा व तस्या- मृतस्य भोगावसरो भवेत्तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः । एतस्माद्रपा. दुद्यन्त्युत्साहवन्तो भवन्तीत्यर्थः । न ह्यनुत्साहवतामननुतिष्ठतामलसानां भोग- प्राप्तिोंके दृष्टा ॥२॥ एतस्माद्रूपादिति व्याख्यातस्यानुवादमात्रम् । उत्साहवतां देवानां यथोक्तामृतोपजीवि- त्वमित्यत्र लोकप्रसिद्धिमनुकलयति-न हीति ।। २ ॥ स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽनिनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं- विशत्येतस्मादूपार्दुदेति ॥ ३ ॥ १ च सर्व यं । २. ङ. च. त्र. ड. ढ. °न्ति दे । ३ ख. घ. ङ. च. त्र. ठ. ड. ण. प्यन्त्येत । ४ स. अ. ण. भूयाभित । ५ ख. ङ. ठ. “दा चैत । न. दा च । ६ ख. र. ज. ज. ठ. दुति !